________________
उत्तरा०
अवचूर्णिः
॥ १७२ ॥
8-0-0-0-0-0-01-01
POXXX8X
सबहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी ।
सावज्जजोगे परिवज्जयंतो, चरिज्ज भिक्खू सुसमाहिइंदिए । ७७१ ॥
सुब्व्यत्ययात्सर्वेषु - अशेषेषु प्राणिषु दयया- हितोपदेशरूपया रक्षणरूपया वा अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या, नत्वशक्त्या क्षमते- प्रत्यनीकाद्युक्तदुर्वचनादिकं सहते इति क्षान्तिक्षमः, संयत इति संयतः स चासौ ब्रह्मचारी च सः पूर्वत्र ब्रह्मप्रति पत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थ, अनेन च मूलगुणरक्षणोपाय उक्तः ॥ १३ ॥ ७७१ ॥ काले कालं विहरिज रहे बलाबलं जाणिय अप्पणी अ ।
सीहो व सद्देण न संतसिज्ञा, वड्जोग सुच्चा न असम्भमाहू || ७७२ ॥
कालेन-पादोनपौरुष्यादिना कालं कालोचितं प्रत्युपेक्षणादि कुर्वन्निति शेषः व्यहरत् राष्ट्रे-मण्डले बलाबले सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वा आत्मनो यथा यथा संयमयोगहानिर्न जायते तथा तथा इति भावः, अन्यच्च - सिंह इव शब्देन प्रस्तावाद्भयोत्पादकेन 'न समत्रस्यत्' - नैव सत्त्वाञ्च्चलितवान् सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात्, अत एव वाग्योगमर्थादुःखोत्पादकं श्रुत्वा च नो-नैव असभ्यं - अशीलरूपं आहुत्ति-उक्तवान्, आत्मानुशासनपक्षे तु कालेन कालं विहरेत्, तथा सिंह इव शब्देन न संत्रस्येत् न सत्वाच्चलेत्, हे आत्मन् भवानिति सर्वत्र गम्यं, नासभ्यं आर्षत्वात् ब्रूयात् शेषं प्राग्वत् ॥ १४ ॥ ७७२ ॥
Jain Education International
For Private & Personal Use Only
Ko XX X * * * * * * * XX
समुद्र
पालीयम
ध्ययनम्
२१
सिंहव
निर्भीकता
॥ १७२ ॥
www.jainelibrary.org