SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ व्रतादिपालनम् KOLKO-Ko-Ko-KeXo-Ko-Ko-KOKOKOKOTKE प्रव्रज्य च यदसौ कृतवांस्तदा(यथाऽसौ आत्मानमनुशासितवांस्तथाऽऽ)हजहिज सग्गंथ (जहित्तु संगं च, जहाय संगं च पा०) महाकिलेस, महंतमोहं कसिणं भयावहं । परियायधम्म चभिरोअइज्जा, वयाणी सीलाणि परीसहे य ।। ७६९ ॥ जहीत्यादि गाथाः १३, हित्वा सङ्गं-स्वजनादिसम्बन्धं, चः पूरणे, महान् केशो-दुःखं यस्मात् यस्मिन्वा तं महान् मोहोऽभिष्वङ्गो यस्मात् यस्मिन् वा तं, कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वाद्भयानकं, कृत्स्नं कृष्णं-समस्तमहाक्लेशरूपत्वादेव विवेकिनां भयावह, पर्यायः प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चः पादपूरणे, ततोऽभ्यरोचयेत-अमिरोचितवांस्तदनुष्ठानविषयां प्रीतिं कृतवान् , आर्षत्वात् यस्तन्यर्थे सप्तमी, यद्वा आत्मानमेवायमनुशास्ति, यथा हे आत्मन्-सङ्गं त्यक्त्वा प्रव्रज्यापर्यायधर्ममेव अभिरोचयेः, पर्यायधर्ममेव विशेषत आह-व्रतानि-महाव्रतानि शीलानि पिण्डविशुद्ध्याद्युत्तरगुणरूपाणि परीषहाणीति भीमसेनन्यायेन परीषहसहनानि च ॥ ११ ॥ ७६९ ॥ एतदभिरुच्यनन्तरं यत्कृतवांस्तदाह अहिंस सच्चं च अतेणगं च, तत्तो अबंभं अपरिग्गह (अब्बंभपरिग्गरं पा०)च। पडिवज्जिया पंच महत्वयाणि, चरिज धम्मं जिणदेसियं विऊ ।। ७७० ॥ अहिंसा सत्यं चास्तैन्यकं च, ततश्च ब्रह्मचर्यमपरिग्रहं प्रतिपद्य-अङ्गीकृत्य पञ्च महाव्रतान्युक्तरूपाणि प्राग्वत् अचरत्-असेवत, यद्वाहेआत्मन् चरेत्-सेवेत, उभयत्र नाङ्गीकृत्यैव तिष्ठेदिति भावः, धर्म-श्रुतचारित्ररूपं जिनदेशितं विद्वान्-जानानः॥१२॥७७०॥ Jain Education onal For Private & Personal use only Mainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy