Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 358
________________ उत्तरा अवचूर्णिः समुद्रपालीयमध्ययनम् ॥१७१॥ रूपिणी-रूपिणीनाम्नी, परिणायितश्च तामसौ, ततः प्रासादे क्रीडति-रमते तया सह रम्ये-अभिरतिहेती, देवो दोगुन्दको यथा ॥७॥ ७६५॥ अह अन्नया कयाई, पासायालोअणे ठिओ। वज्झमंडनसोभागं, वज्झं पासइ बज्झगं ॥ ७६६॥ अथान्यदा कदाचित् प्रासादालोकने-गवाक्षे स्थितः सन् वधमर्हति वध्यस्तस्य मण्डनानि-रक्तचन्दनकणवीरादीनि तैः शोभा यस्यासौ वध्यमण्डनशोभाकस्तं वयं-वधाह कञ्चन तथाविधाकार्यकारिणं पश्यति, बाह्य-पुरबहिर्वर्तिप्रदेशं गच्छतीति | बाह्यगस्तं, कोऽर्थो ?, बहिनिष्क्रामन्तं, यद्वा वध्यगं इह वध्यशब्देनोपचारात् वध्यभूमिरुक्ता ॥ ८॥ ७६६ ॥ तं पासिऊण संविग्गो, समुद्दपालो इणमब्बवी । अहो असुहाण कम्माणं, निजाणं पावगं इमं ॥ ७६७ ॥ तमिति तथाविधं वध्यं दृष्ट्वा, संवेगः-संसारवैमुख्यता मुक्त्यभिलाषस्तद्धेतुत्वात्सोऽपि संवेगस्तं समुद्रपाल इदं वक्ष्यमाणं | अब्रवीत् , यथा अशुभानां-पापकानां कर्मणामनुष्ठानानां निर्यानं-अवसानं, पापक-अशुभं, इदं प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयते इति भावः॥९॥७६७ ॥ संबुद्धो सो तहिं भयवं, परमं संवेगमागओ। आपुच्छऽम्मापियरो, पवए अणगारियं ॥ ७६८ ।। एवं च परिभावयन् सम्बुद्धः-अवगततत्तः, स समुद्रपालस्तस्मिन्नेव प्रासादालोकने भगवान्-माहात्म्यवान् परमं प्रकृष्टं S| संवेगमागतः, ततश्च आपृच्छय मातापितरौ प्रावाजीत्-प्रकर्षण गतवान् , प्रतिपन्नवानित्यर्थः, अनगारितां-दीक्षां ॥१०॥७६८॥ तस्य वध्यदर्शनेन वैराग्यानिष्क्रमणम ॥ १७१॥ XOXO Jain Education M onal For Private & Personal Use Only wellaneibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408