Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
[ २३
महोरगास्तु कृष्णावदाताः महावेगाः सौम्याः सौम्यदर्शनाः महाकायाः पृथुमीनस्कन्धग्रीवाः विविधानुविलेपना चित्रविचित्राभरणभूषणाः नागवृक्षध्वजाः भवन्ति ।
४१२]
चतुर्थोऽध्यायः
गान्धर्वाः रक्तावदाताः गम्भीराः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वराः मौलिधराः मालाविभूषणास्तुम्बरुवृक्षध्वजाः भवन्ति ।
यक्षाः श्यामावदाताः गम्भीराः तुन्दिलाः वृन्दारकाः प्रियदर्शनाः मानोन्मानप्रमाणयुक्ताः रक्तपाणिपादतलनखतालुजिह्वोष्ठाः भास्वरमुकुटमौलिनः नानारत्नधारकाः वटवृक्षध्वजाः भवन्ति ।
राक्षसाः अवदाताः भीमाः भीमदर्शनाः शिरःकरालाः रक्तलम्बौष्ठधारिणः तपनीयविभूषणाः नानाभक्तिविलेपनाः खट्वाङ्गध्वजाः भवन्ति ।
भूताः श्यामाः सुरूपाः सौम्याः प्रापीवराः नानाभक्तिविलेपनाः सुलसध्वजाः कालाः भवन्ति ।
पिशाचाः सुरूपाः सौम्यदर्शनाः हस्तग्रीवासु मणिरत्नविभूषणाः कदम्बवृक्षध्वजाः भवन्ति ।
एतानि च व्यन्तराणां वैक्रियाणि रूपाणि भवन्तीति ।
* सूत्रार्थ - किन्नर, किम्पुरुष, महोरग, गन्धर्व, यक्ष, राक्षस, भूत और पिशाच के भेद से आठ प्रकार के व्यन्तर निकाय के देव हैं ।। ४-१२ ।।
विवेचनामृत 5
दूसरा निकाय व्यन्तर है। वह आठ प्रकार का है । उन आठ भेदों के नाम इस प्रकार हैं – [१] किन्नर, [२] किम्पुरुष, [३] महोरग, [४] गन्धर्व, [५] यक्ष, [ ६ ] राक्षस, [७] भूत, और [८] पिशाच ।
* इस तरह व्यन्तरों के आठ भेदों के नाम जो बताये हैं, उनमें पहला भेद किन्नर का है । उसके दस भेद हैं । यथा - 1 – [१] किन्नर, [२] किम्पुरुष, [३] किंपुरुषोत्तम, [४] किन्नरोत्तम, [५] हृदयंगम, [६] रूपशाली, [७] अनिन्दित, [5] मनोरम, [ ] रतिप्रिय, और [१०] रतिश्रेष्ठ ।
* दूसरा भेद किम्पुरुष का है । उसके भी दस भेद हैं । यथा – [१] पुरुष, [२] सत्पुरुष, [३] महापुरुष, [४] पुरुषवृषभ, [५] पुरुषोत्तम, [६] प्रतिपुरुष, [७] मरुदेव, [८] मरुत्, [ ६ ] मेरुप्रभ, तथा [१०] यशस्वान् ।