Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 298
________________ मोक्षवर्गः४ सूक्त राजा तमेवमवादीत-एतद्विषये यथेच्छसि, तथा कुरु मां मा पृच्छ / ततो मुदितः स दुष्टस्तदैव तत्रागत्य पीलनयन्त्रमानाय्य मुक्तावल्यांक सर्वान साधूस्तत्राकार्य क्रमश एकैकं तत्र यन्त्रे नवनवत्यधिकचतुःशतमुनीनपिनट् / सर्वेऽमी मुनयश्चतुर्विधमाहारं प्रत्याख्याय // 138 // समाधिना शान्ति वहन्तोऽन्तकृत्केवलिनो भवन्तो मोक्षमीयुः / यदा स पापीयान् जीव एकमेवाऽवशिष्टं लघुसाधु पीलितुमैच्छत्तदा खन्धको मुनिः शान्तिमत्यजत्कथितञ्च-रे पापिष्ठ ! प्रथमं मामेव यन्त्रेव निष्पीलय पश्चात्स्वेच्छानुकूलं विधातव्यम् / तेनोक्तं नहि नहि प्रथममेनमेव क्षुल्लकं निष्पील्य पश्चात्त्वां पीलयिष्यामि / तदा तं क्षुल्लकमुनि पील्यमानमालोक्य सर्वथा क्षमां त्यजन् स्कन्धकसरिगुरूदितं वचः स्वभवितव्यञ्च सत्यतां नयनहं मृत्वा दण्डकदेशदाही स्यामिति निदानमकरोत् / पीलनसमये लघुरपि साधुः क्षमयाऽन्तकृत्केवलीभूतोऽक्षय्यं शिवसुखमाप्तवान्, कृतनिदानः खन्धकाचार्योऽपि क्षमात्यागतः पालकेन यन्त्रे पीलितो दुर्ध्यानेन मृत्वाऽग्निकुमारोऽभवत् / अत्रान्तरे पलभ्रान्त्या शोणिताऽऽरजोहरणमादाय गृध्र उदडीयत / तच्चाकस्मात्पुरन्दरयशाराश्या अग्रेऽपतत् / तदालोक्य सा राजानमपृच्छत् हे नाथ ! ईदृशो मरणान्तोपसर्गः साधूनां केन पापिना कृतः परं राजा किमपि नोवाच / ततः पौरजनमुखात्पालकेन पापीयसा पञ्चशतमुनिमंडलसहितः खन्धकाचार्यो यन्त्रे पिष्ट इति ज्ञात्वा भृशं शोचन्ती सा राज्ञी दण्डकनृपमवोचत्-भोः पापिष्ठ ! येन त्वया पञ्चशतमुनिघातः कारितस्तेन संजातमहापापस्य तव मुखावलोकनमपि न युज्यते / ततः संसारमसारं जानाना पुरन्दरयशामहिषी चारित्रमादाय श्रुतमधीत्य ततो विजहे / कृतनिदान कन्धकाचार्यजीवोऽग्निकुमारो भूत्वाऽवधिना समुद्भूतमत्सरस्तदैव दण्डकनृपतिदेशं समस्तं भस्मसाच्चके / यदद्यापि दण्डकारण्यमित्यु च्यते लोकैः / एतच्च वनं G // 1385

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346