Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मतो मदभ्यर्थनं स्वीकुरु / तयोक्तम्-प्रथमं नन्दीश्वरद्वीपं मां नय / तत्र गत्वा त्वदुदितं श्रोष्यामि ते कथनं करिष्यामि च / तस्या एतद्वचनमाकर्ण्य मनसि स दध्यो-इयमधुना मम करतलतो न मोक्ष्यते / इत्यवधार्य वेगेन विमानं नन्दीश्वरद्वीपे समानयत् / तत्रागता मदनरेखा प्रथमं चैत्यमध्ये सकलं शाश्वतबिम्बं समर्चितवती / यथामति सच्चैत्यवन्दनस्तवनस्तुत्यादि विधाय बहिरुपविष्ट विद्याधरमनिममिवन्य स्वोचितस्थानके निषसाद / अथावधिज्ञानेन साधुर्बुबुधे यदियं शीलवती दुर्धियाऽनेनात्राऽऽनीताऽस्ति / अतो मया तथोपदेष्टव्यं यथासौ दुर्धाः प्रबुध्येत / अथ साधुस्तथैवोपदिष्टवान् तं श्रुत्वा विद्याधरः प्रतिबोधमाप / तदनु सा तमपृच्छत्-भगवन् ! मम पुत्र केन हेतुना पद्मरथो राजा निन्ये / तेन सह तस्य जन्मान्तरीयोऽस्ति कोऽपि संवन्धः ? साधुर्जगादहे वत्से ! पद्मरथो हि जन्मान्तरीयमोहात्तव पुत्रं गृहीत्वा पुत्रीचकार / इतश्च मदनरेखापतियुगबाहुः पंचमे ब्रह्मदेवलोके समुत्पेदे। तत्र च देव्यो जयजयारावं विदधत्यस्तमप्राक्षु:-भोः ! त्वया कीदृशं सुकृतं कृतं, यदस्मिन्देवलोके समुत्पेदिषे / अथैतत्प्रसंगे स पूर्वभवजातवृत्तमशेषमवबुद्धथ तां मदनरेखां निजवी नंदीश्वरद्वीपे समागतामबोधत् / इति तदैव युगबाहुर्देवस्तत्रागत्य प्रथम मदनरेखामवन्दत, ततः साधुम् / अत्रावसरे विपरीतं विलोकयन स विद्याधरोऽवक भो देव ! त्वयैतदयुक्तं कथमाचरितं ? यद्गुरोः प्रथममियं स्त्री वन्दिता। देवेनोक्तं- इयं मे धर्मगुरुरस्ति, अत एनामभिवन्ध गुरुवन्दनामकार्षम् / अथ देवस्तामवदत्-अहं त्वया बहूपकृतोऽस्मि, अतोऽहं कथयामि किमप्यादिशतु भवती / साऽवक्-मो देव ! अन्यस्य कस्यापीच्छा मे नास्ति, किन्तु यत्र मे पुत्रोऽस्ति तत्र मां नय / अथ सा गुरुवंदनं विधाय तेनाऽऽज्ञप्ता विद्याधरस्याऽनुज्ञामयाचत / तदनु स देवस्तामुत्पाट्य तत्र मिथिलापुरे समागतस्तत्र च तामापृच्छय देवो निजस्थानमागात् / मदनरेखा च तत्र साध्वीसमीपे दीक्षां ललौ, पंचमहाव्रतानि

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346