Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 343
________________ धर्मार्थकामवरनिर्वृतिसत्यमार्गे, किश्चिन्मया प्रकटितोऽत्र हितोपदेशः। सन्मार्गगामिसुनरैः शुभबुद्धिवर्च-स्तस्य स्वरूपमवगम्य सुधारणीयम् // 42 // इह हि-धर्मार्थकाममोक्षचतुर्वर्गेषु मया यत्किचिदुपदेशलेशः प्रकटितः स्फुटीकृतः स सन्मार्गगामिमिर्मोक्षपथपथिकैर्मव्यैः स्वSRI चेतसि सदैव भावनीयः / भावयित्वा च तत्तत्त्वमधिगन्तव्यं तथैवाऽऽत्मनि धारणीयं स्वीकर्तव्यं इति शेषः // 42 // उपजाति-वृत्ते-इत्येवमुक्ता किल सूक्तमाला, विभूषिता वर्गचतुष्टयेन / तनोतु शोभामधिकं जनानां, कण्ठस्थिता मौक्तिकमालिकेव // 1 // धर्मार्थकाममोक्षवगैश्चतुर्भिः खण्डैविभूषिता-सुमण्डिता मयेत्थं विरचिता सूक्तमाला-मूक्तानां सुभाषितानां मालेव माला सैवेयं लोकानां हृदये स्थिता मनसि सम्यगवधारिता सती मुक्ताहार इवाधिक शोभां तनोतु विस्तारयतु // 1 // अथ मूलग्रन्यव्याख्याकत्रोंः प्रशस्तिः शार्दूलविक्रीडित-वृत्तेआसीत्सद्गुणसिन्धुपार्वणशशी श्रीमत्तपागच्छपः, सूरिश्रीविजयप्रभाभिधगुरुर्बुद्धया जितस्वगुकः / तत्पद्योदयभूधरो विजयते भास्वानिवोचत्प्रभः, सूरिश्रीविजयादिरत्नसुगुरुर्विद्वज्जनाऽऽनन्दभूः // 2 // आर्यावृत्ते-विख्यातास्तद्राज्ये, प्राज्ञा श्रीशान्तिविमलनामानः। तत्सोदरा बभूवुः, प्राज्ञाः श्रीकनकविमलाख्याः // 3 // मी, विद्वान् कल्याणविमल इत्याख्यः। तत्सोदरो द्वितीयः, केसरविमलाभिधोऽवरजः॥४॥ IGREXASSESSERINGS तेषाम

Loading...

Page Navigation
1 ... 341 342 343 344 345 346