Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 342
________________ मोक्षः मुक्तावल्यां अथ 3- तृतीयः कामवर्ग:धरम अर्थ थि काम न वेगलो, धरम काम करे सब ते भलो। सकल जीवन सौख्य सुकाम छे, परम अर्थ ज काम निदान छे / / 40 / / यथा-धर्मार्थाभ्यां कामस्य पार्थक्यं नास्ति किन्तु-यो हि धर्मकार्य वितनोति, स प्राणी जगति सर्वैः प्रशस्यते / येन सर्वजगतां प्राणिनां सुखमुत्पबते, तदेव कासो निगद्यते / किश्चोत्कृष्टार्थस्य निदानं काम एवाऽस्ति अस्यां गाथायां कामशब्देन कार्य निगद्यते, अर्थात्सदुपार्जितस्य धनस्य धर्मकार्ये विनियोगकरणेनैव साफल्यमुपैति // 40 // अथ-४ चतुर्थो मोक्षवर्ग:वसन्ततिलका-छन्दसि-ध्यायन्तु शाश्वतपदं निखिलात्मसेव्यं, यस्योपदेशनपराः सुजना भवन्तु। मोक्षार्थसाधनफलं प्रवरं वदन्ति, सन्तः स्वतो जगति तेऽपि चिरं जयन्तु // 41 // हे भव्यजीवाः ! सर्वतः श्रेष्ठ शाश्वतम, मोक्षं भजत / येन भवन्तोऽसारसंसारान्मुश्चेयुः / पुरुषोत्तमस्तीर्थङ्करः प्रभुमोक्षसाधनमेव साधीयः फलं सर्वत्र निगदति / ये पुनस्तं साधयन्ति, त एवं धन्या मान्या भव्याः प्राणिनो जगति चिरं जयन्तु, चिरायुषो विजयन्ते नेतरे / अतो मोक्षार्थ यतितव्यं श्रेयोऽर्थिमिः सर्वैरिति // 41 // अथ ग्रंथं समापयन्नुपसंहरति ग्रन्थकर्ता D 160 //

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346