Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मुक्तावल्या // 155 // यथा कश्चित्पुरुषः कटितटसमारोपितकरः प्रसारितचरणः स्थितो भवेत्तथेयं लोकनाल्यप्यवगन्तव्या। सा स्थालवद्वर्तुला चोर्श्वभूमौ रक्षितमदलवत्प्रतिभाति / अधश्च भुवनपति-व्यन्तर-सप्तनरक-सार्द्धद्वयद्वीपा वर्तन्ते चोपरि द्वादशदेवलोक-नवोवेयकपञ्चाऽनुत्तरविमानानि सन्ति, तदुपरि सिद्धशिला विद्यते / तत्सर्व त्रिभुवनदिवाकरकेवलिजिनेश्वरैः प्रकाशितमस्ति // 27 // ५-अथ ११-बोधिदुर्लभभावनां १२-धर्मभावनाञ्चाऽऽहस्वागता-छन्दसि-बोधियीज लहि जेह अराधे, ते इलासुत परे शिव साधे / धर्म भावन लही भवि भावो, राय संप्रति परे सुख पावो / / 28 // इह हि बोधिबीज-'सम्यक्त्वं / समासाद्य यो हि तदाराधयति स इलाचीकुमारवन्मोक्षमुपैति / एवं धर्मभावनावन्तोऽपि भव्याः संप्रति राजवत्सुखिनो भवन्ति / यथा पूर्वभवे संप्रतिनृपो महारकोऽपि धर्मभावनयात्र जन्मनि राज्यसुखमन्वभूत् / अतो हे भव्याः ! यूयमपि सम्यक्त्वमाराधयत तथा धर्म भावयत / यथाज़ सुखमनुभूय परत्र शिवसुखमधिगमिष्यथ / तदुपरि-इलाचीकुमारकथा परं सा पुराव धर्मवर्गे सप्तत्रिंशत्तमे 37 प्रबन्धे निर्दिष्टा ततोऽत्र नो लिखितास्ति / धर्मभावनया सुखमधिगतस्य संप्रतिराजस्य १५-कथायथाऽसौ भवान्तरे दुमकनामा भिक्षुरभूत्तस्य मुखे शरीरे च सदैव मक्षिकाः पतन्ति स्म / कोऽपि गृही स्वाऽन्तिके स्थातुं तस्य घृणास्पदत्वादवकाशं न प्रयच्छति / तं विलोक्य सोऽपि जनस्तं तिरस्करोति मुखं पिधत्ते घ्राणं संकोचयति स्म / अथैकस्मिन्दिने स 155 //

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346