Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 335
________________ सदा सुखी तिष्ठति / अद्वेषिणां यादृशं सुखं जायते, तत्तु वक्तुमपि न शक्यते / किञ्च यः कस्मैचिद् द्वेष्टि, सोऽनन्तसंसारी जायते / यथा-पुरा श्वश्रूर्ननान्दा च मिथो मन्त्रयित्वा द्वेषेण सुभद्रायै कलंकं ददतुः / परं सत्यशीला साऽऽमतन्तुना चालन्या कूपाजलं समानीय चम्पापुर्या द्वाःस्थकपाटं सकलैरनुद्घाट्यं तज्जलसेकादुद्घाटितवती / सकलजनसमक्षं तत्कपाटोद्घाटनेन मुधा जातकलङ्कान्मुक्ताऽभवत्ततश्च सा सुखं लेभे / तस्याः श्वश्रुननान्दारौ च सर्वे लोका निनिन्दुस्तेन तयोर्भृशं दुःखमजायत / किञ्च रागद्वेषाम्यामिह केवलं दुःखमेव भवति, शुभफलन्तु मनामपि न जायते। इति विजानता केनचिदपि रागद्वेषौ न कर्तव्यो। यदाहरागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् / तावेव यदि न स्यातां, तपसा किं प्रयोजनम् // 1 // यस्य पुंसो रागद्वेषौ विद्येते, तस्य पुंसस्तपसाऽनुष्ठितेनापि किमपि न सिद्ध्यति तयोः सद्भाषे तत्कृततपसो व्यर्थत्वात् / पुनर्यस्य चित्ते तो रागद्वेषौ मनागपि न स्तस्तस्यापि तपःकरण वृथैव, यत्तस्य तपो विनैव मनःशुद्धया कृतार्थत्वात् // 30 // अथ ७-सन्तोष-विषये-वसन्ततिलका-वृत्तम्सन्तोष-तृप्त जमने सुख होय जेवू, ते द्रव्यलुन्ध जनने सुख नाहि तेवु / सन्तोषवन्त जनमे सहु लोक सेवे, राजेन्द्र रंक सरिखा करि तेह केवे // 31 // र सन्तोषियो जना यत्सुखं विन्दन्ति तत् लुब्धजनैः स्वमेऽपि नानुसयते / सन्तुष्टाः प्राणिनः सर्वैः प्रशस्यन्ते / सन्तोषिणो जना रकान् धनिश्च समभावेन पश्यन्ति / बहुलोमिनस्तु सदैव भृशं दुःखीमवन्ति / किमधिकं कनकरजतगिरी प्राप्यानपि लुब्धो नसे न वृप्यति / यदाह BARBREAKHABAR

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346