Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मोक्षः सूक्तमुक्कावल्यां // 154 // संवरं भजमानस्य वज्रस्वामिनः १३-प्रबन्धःयथा-पाटलीपुरनगरे निवसतो धनावहमहेभ्यस्य महारूपवती रुक्मिणीनाम्नी कन्या वज्रस्वामिनो देशनामाकर्ण्य तद्रपेण विमोहिता निजसदनमागत्य मातापितरावेवमवादीतू-हे पितरौ ! अहमनेन देहेन वज्रस्वामिनमेव वरिष्ये, नान्यं भर्तारं विधित्सामि / ताभ्यामुक्त-हे वत्से ! स त्यागी वर्तते तस्माचां न परिणेष्यति / अनेनाश्रवद्वारं सकलं प्रत्याख्यातमतः कोऽप्यन्यो गुणवान् वरो वरणीयः / इत्थं बहुधा प्रतिबोधिताऽपि यदा सा न बुबुधे तदा धनावहः श्रेष्ठी कोटिदीनारॉल्लात्वा रुक्मिणी पुरस्कृत्योपाश्रयमागत्य वज्रस्वामिनमवदत्-महाराज ! एतान् क्रोटिदीनाराम गृहाण मम पुत्रीमिमां परिणीयाऽनुगृहाण चेत्युदीर्य कन्यां दीनारांश्च तत्रैष मुक्त्वा निजसदनमाययौ / तदनु तया कन्यया वज्रस्वामिनं चालयितुं कृतेष्वपि शतश उपायेषु मेरु शिखरमिवाञ्चलमवगत्य प्रतिबुद्धा सती पितृदत्तं दीनारादिसर्व सप्तक्षेत्रेषु विभज्य प्रबजिता सा कन्याऽऽत्मसाधनतत्परा जाता। अथ पुनः संवरद्वारमाद्रियमाणस्य पुण्डरीकस्य १४-प्रबन्धःपुरा संयममार्गात्परिभ्रष्टः कुण्डरीको मुनी रजोहरमुखवसनादि कुत्रचित्तरावाललम्बे / पुनः कुण्डरीके राज्यासनमापने पुण्डरीकस्तदा धर्मध्वजादि तदुपकरणमादाय गुर्वन्तिकं गस्वैव मयाऽनोदकं ग्राह्यमिति नियममङ्गीकृत्य ततश्चचाल मार्गे च पादचारिणस्तस्य कंटकादिविद्धाभ्यां पद्भ्यां रक्ते निर्गच्छत्यपि मनागपि संबरमत्यजनो गच्छंस्कृतीये दिवसे कालं कृत्वा सर्वार्थसिद्धविमामे त्रयस्त्रिंशत्सागरोपमायुष्को देवोऽभूत् / अतो वच्मि-संवरे महाँल्लाभोऽस्ति, अतोऽसौ सर्वैरादर्तव्यः / // 154 //

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346