Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मोक्षवर्ग: मुक्तावल्या BCCIES अविरतिदिशधा, षोडशचा कषायः, पंचधा मिथ्यात्वं, पंचदशधा योगः, एतान्याश्रवद्वाराणि भवन्ति / तैरसौ जीवः कर्माणि बध्नाति, तानि जित्वा पुनरसौ कर्माण्यनर्जयन समत्ववान संवृतो भवति ज्ञानादियुतं बोधिवीजश्चाभ्युपैति // 22 // इन्द्रवज्रा-छन्दसिजे कुंडरीके व्रत छांडि दीधु, भाई तणुं ते वलि राज्य लीधुं / ते दुःख पाम्या नरके घणेरा, ते हेतु ए आश्रव दोष केरा // 23 // पुरा कश्चन कुण्डरीकनामा राजर्षितं त्यक्त्वा भ्रातू राज्यमगृहातेन नारकी यातनां महतीं स प्राप्तवान् / अतः श्रेयोऽर्थिमिराश्रवस्त्याज्यः // 23 // आश्रवदोषान्नरकमितस्य कुण्डरीकस्य १२-प्रबन्धःयथा-महाविदेहक्षेत्रे पुण्डरीकिणीपुर्यो कुण्डरीकपुण्डरीकनामानौ भ्रातरौ राज्यं बुभुजाते। अत्रान्तरे तत्र कश्चन ज्ञानी गुरुरागात्तदीयदेशनां निशम्य संजातप्रतिबोधः कुण्डरीको राज्यं पुण्डरीकाय दत्वा दीक्षां ललौ। स सरसनीरसमाहारं कुर्वन महारोगग्रस्तोऽभूत् / ततः परिणाममपश्यन् वर्षसहस्रं चारित्रं परिपाल्यापि कर्मप्राबल्यतः स संयम जहौ / अथ गृहे स्थातुमिच्छया गृहान्तिकेऽशोकवाटिकायां धर्मध्वजं मुखवस्त्रञ्चालम्ल्य, शोचितुं लग्नो यदसौबन्धुर्मे राज्यं दास्यति न वेति विमृशंस्तस्थौ / तावत्तत्र कुतोऽपि कार्यप्रसंगात्समागतः पुण्डरीकस्तमुपलक्ष्य प्रणम्य चागमनकारणमपृच्छत् / तत्र समये कुण्डरीकः सर्व मनोगतमुदन्तं G // 153 //

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346