Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मोक्षपनी एकमुक्तावल्यां // 150 // RECENSIBEECRETREE यथावत्पालयति / इतश्च पदस्थो राजा पुत्रस्य तस्य नमिकुमार इति नाम चक्रे / अथ युवानं सकलकलावन्तं नमिकुमारं राज्येऽभिषिच्य स्वयं धर्मध्याने लग्नः / अथैकदा तस्य नमिराजस्य पट्टहस्ती सहसाऽऽलानस्तम्भमुन्मूल्य यत्र तत्र धावन् सुर्दशनपुरमागात् / तं महागजं विलोक्य मणिरथराजसिंहासनासीनो मदनरेखातनयश्चन्द्रयशा नृपः स्त्रीयाऽऽलानस्तम्भेश्वघ्नात् / तच्छ्रुत्वा नमिराजस्तदन्तिके दूतं प्राहिणोत्तन्मुखेनाचीकथच्च-मोश्चन्द्रयशो राजन् ! मम हस्तिनं देहि। अथ दूत आगत्य तस्मै सर्वमवोचत / परं चन्द्रयशसोक्तम्-मो दूत ! अहं तद्ग्रहान्नानीतवान्, किन्वागतमेवाऽगृहणाम् / अत्र को मे दोषः ? अतस्त्वं गत्वा कथय, यद्वीरभोग्या वसुन्धरेति / अथ ततः समागतो दूतस्तदुक्तं सर्व नमिनृपं व्यजिज्ञपत् / तच्छ्रत्वा कोपोद्भूतभ्रुकुटिभीषणश्चतुरंगसैन्यमादाय सुदर्शनपुरपरिसरमागत्य स तस्थिवान् / चन्द्रयशा अपि निजचमूसहितस्तदभिमुखमागते दलद्वयसैन्यमेकत्र योद्धं तस्थौ तदनु मिथो युद्धं प्रववृते / अत्रान्तरे तदेतत्सर्व ज्ञानेन ज्ञात्वा मदनरेखा साधी चिचिन्त अहो ! उभौ भ्रातरौ युयुधाते, अत उभौ प्रतिबोध्य यदि वारयामि तर्हि वरं, नो चेदसंख्यजीवनाशो भविष्यति / अथ सा निजगुर्वी साध्वीं तत्र स्वगन्तुमभ्यार्थयत् / सावक-वं तत्र गत्वा तो कथं वारयिष्यसि ? तयोक्तं-हे गुर्वि ! उभावपि ममैव पुत्रौ स्तस्ततस्तां तत्र गन्तुमनुज्ञां ददौ / तदनु मदनरेखा साध्वी नमिराजान्तिकमागत्य तस्थौ। तां विलोक्य नृपोऽवदत्-अयि गुर्वि ! अद्य ते महती कृपा जाता यदत्राऽऽगत्य दर्शनं दत्तवती / तयोक्तं-राजन् ! केन सह युद्धयसे ? तेनोक्तम्-वैरिणा / पुनः साध्वक्-हे वत्स ! स ते वैरी नास्ति किन्तु सोदरोऽस्ति / अत्रान्तरे सकलमामूलं वृत्तान्तं सा तं राजानं निबोधयामास / अथैतच्छ्रत्वा नमिनोक्तं-मातः ! तवादेशं चिकीर्षामि परमेतत्स्व BRXXXSECORRECEIRDS SRI 150 //

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346