Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 312
________________ मोक्षवर्गः४ मुक्तावल्यां // 145 // KESAB+ स्थानमगमत् / चक्री ततोऽष्टमतपसः पारणमकरोत् / अथोत्तरदक्षिणादिक्षु तमिस्रागहरद्वारमुद्घाख्य म्लेच्छैः सह द्वादशवर्षाणि घोरं समरं विधाय तांश्च जित्वा त्रिरूण्डां महीं संसाध्य गङ्गातीरमागत्य तस्थौ / तत्र च वर्षसहस्रं स्थित्वा परावर्तमानस्य तस्य चक्रिणो नवनिधयः प्रकटीबभूवुः / तदर्थ चक्री तत्र महोत्सवं विततान तानि च नवनिधानानि द्वादशयोजनलंबितानि, नवयोजनोच्छुितानि भूमौ चलन्ति तानि च पेटिकाकारेण चक्रवर्तिगृहद्वारे तिष्ठन्ति / परं तेषु पुरापि केचन न प्रविविशुन वा प्रवेष्टारः सन्ति / इत्थं तस्य चक्रिणः कनकरजतरत्नाकराणां विंशति 2 सहस्रं विद्यते / षट्खण्डानां साम्राज्यमितोऽपि बढधिकं जायते तादृशी प्रभुता तु कस्याऽपि न भवति / अष्टचत्वारिंशत्सहस्र पाटणं, महानगराणि च द्विसप्ततिसहस्राणि, सहस्राणां विंशतिः खेटक, एवं कर्बटमण्डपद्रोणप्रमुखग्रामाणां षण्णवतिकोटिरासीत् / तथा चतुरशीति 2 लक्षप्रमाणं गजतुरगरथ, षण्णवतिकोटिः पदातीनां, पण्डितानां षष्टिसहस्रं, ध्वजिनांदशकोटिरभूत् / पंचलक्षाणि महादीपकधरा, लक्षाधिकद्विनवतिसहस्रं दाराणामासन् / देशानां द्वात्रिंशत्सहस्रं बभूव चैव द्वात्रिंशत्सहस्रं मुकुटबद्वानां माण्डलिकभूपालानामादेशकारिणां, ईदृशी महतीमनन्यसाधारणां समृद्धिमापनो भरतचक्रवर्ती सोऽयोध्यामागतास्तत्र च द्वादशवर्षाणि महामहं प्रावर्तयत चिरं त्रिखण्डामिमां महीमन्वशात् / अथैकदा स चाऽऽदर्शभवने सुखासीनो दिव्याम्बराभरणमण्डितात्मा तनुच्छवि पश्यन् भूषणविहीनामंगुलीमशोभनामवेदीत् / तदनु सर्वाभरणानि शरीरतोऽपनीय सर्वामपि पौद्गली मायामर्थात्-शरीरमिदं यद्भूषणवसनादिना शोभते, तदनित्यमेवेति भावनां भावयामास / इत्थं भावयतस्तस्य कैवल्यमुदपद्यत, तत्रावसरे शासनदेवता तस्मै साधुवेषमशेष दत्तवती। तदनु स चक्री त्यक्तराज्यो दशसहस्रराजन्यैः सह विजहार / अथ महीं पावयन अथकदा स चाऽऽदर्श मिथोत-शरीरमिदं यदावहानामंगुलीमशोभनामवेदी 55 //

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346