Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 308
________________ MERोवर्गः 4 सक मुक्तावल्यां 143 // *** * __पुरा संयमादधिगतलन्धियोगाद्योऽत्र बलदेवमुनिस्तुङ्गनामगिरेरुपरि तिष्ठन् सिंहमृगादिकान् कियतो जीवान् प्रतिबोध्य पुनरेतादृशैः पशु-पक्ष्यादिमिविवेकविकलैस्तथा धातुकैाघसिंहादिभिश्च मांसादिकमसदाहारमत्याजयत् पुनरेतादृशान् जीवानपि सम्यक्त्वलसितान् धर्माराधकान् कुर्वन् स्वयञ्चापि सम्यक् संयममाराध्य पंचमब्रह्मदेवलोकसुखं सुचिरमन्वभूत् // 9 // अथ सिंहादिपशूनपि प्रतिबोधयतस्तस्य बलदेवमुनेः ५-कथानकम्यथैकदा वने कृष्णे कालं गते सद्वैराग्येण सह बलदेवश्चारित्रं ललो, परमेतस्य तनुश्रियाऽनुपमयैकदा मध्याह्नसमये गोचर्यै नगरमागच्छतः कूपान्तिके स्थिता काचित्कान्ता तपमोहमुपगता तेनान्यमनस्काघटभ्रान्त्या निजशिशोः कण्ठे रज्जु दृढं बध्वा यावदधः पातयितुमुद्यताऽभूत् / तावत्तदद्भतमकार्य विलोक्य बलदेवमुनिस्तामवोचत-अरे !एतत्कि करोपि? ततस्तया तदबोधि / ततः सा शिशोर्गलाद्रज्जुमपनीय घटमवघ्नात् / स मुनिरपि मद्पावलोकनादियं स्त्रीदमकृत्यमकरोत, अतो मया नगरे नागन्तव्यं, वन एव यदा यल्लप्स्यते, तदा तेनाहारेण पारणं विधातव्यमन्यथा तप एव कर्तव्यमिति निश्चित्य वन एव ततःप्रभृत्यतिष्ठत् / अथातुलतपोबलप्रभावतः शशक-हरिण-मूकर-ज-व्याघ्र-सिंहादयोऽपि तदीयदेशनां प्रत्यहमाकर्णयन्तो मांसादिभक्षणं प्रत्याचख्युः / अथैकदा तत्र कश्चिकाष्ठच्छेदी समुपागत्य सत्काष्ठानि छेत्तुं लग्नः / सञ्जाते च मध्याह्वेच्छिन्नमेकमहातरु समाश्रित्य तदधः खाद्यपक्तुं लग्नः। तत्र पाकधूम्रमालोक्य कश्चन शुभोत्तरसमयः सुश्राद्ध इव मृगो मुनेरग्रे पुच्छमकम्पयत् / तदा मुनिरपि पात्रमादाय तेन सह तत्राऽऽगात् / सोऽपि मुनिमायान्तमालोक्य सहसोत्थाय मुनेरभिमुखमागत्य तं प्रणम्य समभ्यार्थयत-स्वामिन् ! एहि,अद्य मे जन्म सफलं जातं,भवदर्शनात्पूतोऽभवम्, अद्य मया महत्पुण्यं लब्धम् / तत्रावसरे मृगो दध्यौ-यद्यहमद्य मनुष्योऽभविष्यं तर्हि ममाऽपीदृशो लाभोऽभविष्यत् / ** **** 143 //

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346