________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
अजामदहतभाः, ते पूर्वे यस्य स तथा । मुजशब्दसंबन्धि मकारे नकारे सति अनुज १ जानुज २ मनुज ३ दनुज ४ हनुज ५ तनुज ६ भानुजा ७ इति भवति ॥ २२ ॥
जलस्य जारजातस्य, हरितालस्य च प्रभुः । मुनिर्यं प्रश्नमाचष्टे, तत्रैव प्रापदुत्तरम् ॥ २३ ॥ अव० – “का कुलालेन मृद्यते ? ” ( काकुलालेन मृद्यते ) समवर्णप्रश्नोत्तरजातिः । कं च अकुलश्च आलश्च काकुलालाः तेषां इनः स्वामी ( स तथा ) तस्य सम्बोधनं हे काकुलालेन एतय (द्य) तेर्विशेषणं । मृद् मृत्तिकां ॥ २३ ॥ ब्रूते पुमांस्तन्वि ! तवाधरं कः ?, क्षिणोति को वा मनुजब्रजच्छित् ? । प्रिये ! स्वसान्निध्यमभ्युपेते, किमुत्तरं यच्छति पृच्छतः श्रीः १ ॥ २४ ॥
अव० - " नारदः " त्रिर्गतः । हे नः पुरुष । रदः दशनः । रो रे लोपमित्यादिना दीर्घः । नराणां समूहो नारं, तत् द्यति खण्डयति यः स तथा । न आरत् नागतः । ऋशृगतावित्यस्य ह्यस्तनी प्रथमपुरुषैकवचने वृद्धौ च रूपं । अः विष्णुः ॥ २४ ॥ किमिष्टं चक्राणां वदति बलमर्कः किमतनोत्?, जिनैः को दध्वंसे ? विरहिषु सदा कः प्रसरति ? भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः ?, सुरेन्द्राणां कीदृग् भवति जिनकल्याणक महः १ ॥ २५ ॥ १ स्पष्टतायै टीकान्तरपाठोऽत्र लिख्यते - जलजारजातहरितालखामिनो मुनिश्च का कुलालेन मृद्यते ? इति यं प्रश्नं चक्रुः, तत्रैवोत्तरं ते प्रापुः । यथा— हे केन, हे अकुलेन, हे आलेन, हे यते । मृद् मृत्तिका ॥ २३ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmander