Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 152
________________ Shri Mahavir Jain Aradhana Kendra श्री पार्श्व० ॥ ६९ ॥ www.kobatirth.org तैर योगेन विवेकसेक - मुक्तास्ति या सापि जिनावतंस ! | विलोकिते कान्तिकत्व दास्य - चन्द्रोदये नृत्यति चक्रवाकी (स० ) ॥ २ ॥ टीका - चन्द्रोदये चक्रवाकी नृत्यतीति समस्या । हे जिनावतंस ! सापि चक्रवाकी नृत्यति । क्व सति ? कान्तिकलत्वदास्यचन्द्रोदये विलोकिते सति-कान्त्या कलं मनोहरं कान्तिकलं यत्त्वदास्यं कान्तिकलत्वदास्यं तदेव चन्द्र|स्तस्योदयस्वस्मिन् विलोकिते सति । का सा ? या विवेकसेचनं तेन मुक्तास्ति । केन ? तैरश्ययोगेन तिर्यग्भावेन ॥ २ ॥ पुरः प्रकीर्णानि कपोलपाली - तले तवास्ये प्रतिबिम्बितानि । • निभालय संदेग्धि बुधो जनः किं, चन्द्रस्य मध्ये कदलीफलानि (स० ) ॥ ३॥ टीका—हे देव ! इत्यध्याहारः । बुधो जन इति संदेग्धि संदेहं करोति - किं चन्द्रस्य मध्ये कदलीफलानि १ । किं कृत्वा ? निभालय दृष्ट्वा । कथंभूतानि ? पुरोऽग्रतः प्रकीर्णानि विस्तारितानि । तवास्ये निर्मले कपोलपालीतले गल्लस्थलप्रदेशे प्रतिविम्बितानि संक्रान्तानि दृष्टा । भगवतो मुखं चन्द्रोपमं तत्र निभाव्य संदेग्धि इति युक्तमेव ॥ ३ ॥ यैर्निर्जितैः पञ्चशरेण चके, कण्ठे कुठारः कमठे ठकारः (स० ) अकीर्तिनाट्यस्य च वादितोऽलं, साम्यं क तेषां सदां त्वयाऽस्तु ॥ ४ ॥ टीका- कण्ठे कुठारः कमठे ठकारः इति समस्या । हे देव ! त्वया सह घुसदां देवानां सादृश्यं व कुतोऽस्तु ? । For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir स्तवः ॥ ६९ ॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206