Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
अव०—हे ईश ! हे नाथ ! । हे सौख्यपरंपरायाः सुखसन्ततेः निर्वेशवन् निर्वेश उपभोगोऽस्यास्तीति तद्वन् । कीदृश्यासौख्यपरंपरायाः ? अपराया न विद्यते परा प्रकृष्टा यस्याः सा तस्या महत्या इत्यर्थः । हे पार्श्वदेव । जनता जनस मूहः । तव पादाम्बुजं आदरेण हृदि चित्ते आदधाना बिभ्राणा सती । दरेण भवाब्धिभ्रमणजनितभयेन । एकपदे सहसा मुक्ता भवेत् विरहिता स्यादित्यन्वयः । एतेन भगवच्चरणारविन्दयोर्जगति प्राशस्त्यं प्रपूजनीयत्वं चोक्तं । एकपदे इत्यव्ययं अकस्मादर्थे ॥ ३ ॥
निःशेषभूवर्षितदानवारि, यन्मानसे त्वं प्रियसे सदैव ।
स एव गव्युत्तमदानवारि - प्रोच्चारितोद्दामयशाः सदैवः ॥ ४ ॥
अव० – संबोधनमध्याहार्य । हे पार्श्वदेव । यस्य पुरुषस्य मानसे त्वं सदैव निरन्तरं प्रियसे तिष्ठसि स एव पुमान् गवि पृथिव्यां सदैवो भाग्यवान् । अहमेवं तर्कयामीति शेषः । सह देवेन भाग्येन वर्तत इति सदैवः । कीदृशस्त्वं ? निःशेषभुवि समग्रभूमौ वर्षितं दानमेव वारि जलं येन सः, येन व्रतग्रहावसरेऽखिला भूमिरभीष्टदानप्रदानेन संतोषितेत्यर्थः । कीदृशः स पुमान् ? उत्तमा ये दानवारयो देवास्तैः प्रोच्चारितं प्रकटीकृतं उद्दाममुत्कटं यशो यस्य सः । प्रियसे इति "धृङ् अवस्थाने” अस्मात्तौदादिकात् कर्तरि लट् ॥ ४ ॥
देवाधिदेवाधिहरखमेव, सुज्ञान सुज्ञानभिबुद्धरूपः । सारंगसारांग वितीर्णभूयः - कल्याण कल्याणकृदङ्गभाजाम् ॥ ५ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206