Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
टीका–पञ्चेन्द्रियाणां विषयेषु आसक्तान्मग्नान् । संसारे भवा सांसारिकाः, ते च ते सुरासुराश्च तान् अप्राप्तपञ्चमगतिकानित्यर्थः । विहाय त्यक्त्वा । भो धीरा भो भव्या!। अक्षयः न विद्यते क्षयो यस्य सः । अत एव अपर:-न विद्यते परः प्रकृष्टो यस्मात्सः । पार्श्वदेवः प्रभुः सेव्यताम् ॥ ३॥ | जिताः सर्वार्थदानेन, येन कल्पद्रुमा अपि । भवेदभ्यर्चितो लोके, स श्रिये चामृताय च ॥४॥
टीका-येन भगवता भविकेभ्यः सर्वार्थदानेन कल्पद्रुमा अपि जिताः पश्चात्कृताः। सर्वेपामर्थानामिष्टानां दानं तेन हेतुना । इहत्यसुखहेतुत्वात् कल्पवृक्षा इष्टार्थदाः, अयं चेह लोके परत्र च सौख्यहेतुरस्ति, अतः सर्वार्थदायकः। दातेन एते जिता एवेति भावः । स पार्श्वः अभ्यर्चितः सन् लोके श्रिये इह भवे लक्ष्म्यै कीत्यै च भवेत् । अमृताय च
परभवे मुक्तये भवेत् ॥ ४॥ संस्तुतो मधुरश्लोकै-जैनलाभप्रदायकः। कल्याणकारको भूया-च्छीमान् शं(मच्छ) खेश्वरप्रभुः॥५॥
टीका-मधुरश्लोकैमनोज्ञयशोभिः संस्तुतः परिचितः प्रसिद्ध इतियावत् । तथा मधुरश्लोकैर्मनोज्ञपद्यैः संस्तुतः पुनः। जैनलाभप्रदायकः जैनानां जिनधर्मिणां जैनेभ्यो(वा)बोधलाभः तं प्रददातीति जैनलाभप्रदायकः । श्रीमान् शङ्खश्वरप्रभुः कल्याणकारको भूयात् । देहिनामिति शेषः॥५॥
॥ इति श्रीशङ्केश्वरप्रभोः स्तवः सावचूरिः॥
For
And Peso
Use Only

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206