Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 201
________________ ShriMaharjain AradhanaKendra ज्ञानादिदानेन वर्तते यःसः। यो गिरा वाण्या माधुर्यादिगुणातिशयतः पीयूषमदं अमृतगर्व छिनत्ति । नमन्तश्च सेऽङ्गिहै नश्च तेषां रा द्रव्यं तस्याः कर्ता ॥२१॥ श्रीवर्धमानेशमलोभवन्तं, यः स्तौति भक्त्या विमलो भवन्तम् । सङ्गं शिवश्रीस्तरसा न तस्य, चिकीर्षते सा न रसानतस्य ॥ २२ ॥ | अव० हे श्रीवर्धमान! भवन्तं यो भक्त्या विमलः सन् स्तौति, तस्य जनस्य सङ्गं संयोगंसा जगत्प्रसिद्धा शिव-| श्रीनिर्वाणकमला न न चिकीर्षते इति, कोऽर्थः? चिकीर्यत एव " द्वौ नौ प्रकृत्यर्थ गमयतः” इतिवचनात् । भवन्तं कथंभूतं ? ईशं स्वामिनं । पुनः कथंभूतं ? न विद्यते लोभो यस्य स तं तथा । तरसा जवेन । तस्य कथंभूतस्य ? पृथ्वीस्थजननतस्य ॥ २२॥ श्रीवारिषेणं तरसा परागं, भव्यत्रजत्राणरसापरागम्। नमामि कीर्त्यस्तहरं नदीनं, गाम्भीर्यतो मोहहरं नदीनम् ॥ २३ ॥ अव०-तरसा बलेन परागं प्रकृष्टपर्वतं मेरुमित्यर्थः। भव्यबजत्राणे रसोऽभिलापो यस्य, अपगतो रागो यस्मात्, ततो भव्यबजत्राणरसश्चासौ अपरागश्चेति विशेषणसमासः (कर्मधारयः) तं । कीर्त्याऽस्तो हर ईश्वरो येन स तं । नदीनं समुद्रं । कस्मात् ? गाम्भीर्यतो गम्भीरतागुणेन ॥ २३ ॥ AUCRACNE SCIENCREACROCOCRACROCOCR For And P u se Only

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206