Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 202
________________ ShriMahiyeJain AradhanaKendra विहरमाण स्तवः 5*555 ॥९४॥ गङ्गेव तापं जलतासु गौरा-च्छिनत्ति यस्यावनतासु गौरा । चन्द्राननोऽसौ धृतिलो ममाल-मस्तु श्रियेऽस्तप्रतिलोममालः ॥ २४॥ अव०-यस्य गौर्वाणी गङ्गेव जनतासु जनसमूहेषु तापं संसाराटवीपर्यटनसंभवं आच्छिनत्ति, स चन्द्राननो मम श्रियेऽलमत्यर्थमस्तु । गौः कथंभूता? गौरा निर्मला । चन्द्राननः कथंभूतः? धृति संतोष लातीति धृतिलः । अस्ता निराकृता प्रतिलोमानां प्रतिकूलानां कामारीणां माला श्रेणिर्येन सः॥ २४ ॥ कृतं यतीनां गुरुणा कृतान्तं, भवस्य नोनोम्युरुणा कृतान्तम् । कुवादिवीथीविपदाधिरोहं, प्रजाभवत्सिद्धिपदाधिरोहम् ॥२५॥ अव०-यतीनां गुरुणा तीर्थकृता कृतं कृतान्त सिद्धान्त अहं नोनोमि भृशं स्तौमि । कृतोऽन्तो विनाशो येन । कस्य ? भवस्य । गुरुणा किंविशिष्टेन ? उरुणा चतुस्त्रिंशदतिशयादिश्रिया महता । कुत्सिता वादिनः कुवादिनस्तेषां वीथी श्रेणिस्तस्याः तच्चिन्तितकुवितर्कविफलीकरणात् विपदश्च आधयश्च तान् रान्तीति कुवादिवीथीविपदाधिराः (ईदृशाः) ऊहा वितको यस्मिंस्तं । प्रजाया लोकस्य भवन् जायमानः सिद्धिपदेऽधिरोहो यस्मात्तम् ॥ २५॥ रति जिना मे सकलाः क्रियासु,शस्यासु शश्वत्सकलाः क्रियासुः। दिवाकरामानतनुप्रभा वाः-पवित्रवाक्या अतनुप्रभावाः॥२६॥ ॥९४॥ For Private And Person Use Only

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206