Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 203
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अव० - सकलाः समस्ता जिना मे मम शस्यासु प्रधानासु क्रियासु कर्तव्येषु । शश्वन्नित्यं रतिं रुचिं क्रियासुर्विधेयासुः । सह कलाभिर्वर्तन्ते ये ते सकलाः । दिवाकरः सूर्यस्तद्वदमानाऽप्रमाणा तनुप्रभा शरीररोचिर्येषां । तथा वाः पानीयं तद्वत्पवित्रं वाक्यं वचनं येषां । अतनुर्महान् प्रभावो महिमा येषां ते ॥ २६ ॥ प्रह्वाशया शासनभासनाया - हतां यशः पूर्णनभाः सना या । गीर्देवताढ्या प्रवरक्षणेन, घिनोतु वः शात्रवरक्षणेन ॥ २७ ॥ अव० - याऽर्हतां शासनभासनाय सना सदा प्रह्वाशया सावधानचित्ताऽस्ति सा गीर्देवता सरस्वती शात्रवो रिपवस्तेषां रक्षणं त्राणं तेन कृत्वा वो युष्मान् धिनोतु प्रीणातु । या कथंभूता ? यशसा पूर्ण भृतं नभो व्योम यया सा । आढ्या समृद्धा । केन प्रवरक्षणेन प्रधानो (त्सवे) न जा ( तावेक) वचनम् ॥ २७ ॥ ॥ इति श्रीसीमन्धरजिनस्तवः सावचूरिः ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 201 202 203 204 205 206