Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
पर्षदस्तासां जनाः, नमन्तो नरामर्त्यसभाजना यस्मै तस्मै । पुनः कथंभूताय ? समतावररसपात्राय । हे धर्मरते! पुण्य, रुचे । हे स्तुत । कैः? बुधैः । अरमत्यर्थम् ॥१६॥
श्रीवीरसेनं जितमोहसेनं, मुक्तं सदा मानतमोहसेन ।
स्तुवन्नरः स्याद्दमदं तु दंत-पंक्त्या सुखी पुष्पमदं तुदन्तम् ॥ १७॥ अव०-श्रीवीरसेनं जिनं स्तुवन् नरः सुखी स्यादिति । जिनं कथंभूतं ? जिता मोहसेना येन स तं । सदा मुक्त। केन ? अहङ्काराज्ञानहास्येन।दम इन्द्रियनोइन्द्रियजयरूपस्तं ददातीति दमदं । श्रीवीरसेनं किं कुर्वन्तं? तुदन्तं व्यथमान। के ? पुष्पाणां कुसुमानां मदं गर्व, कया ? दन्तपङ्क्त्या । तुर्विशेषणसमुच्चये ॥ १७ ॥
मम प्रदेया वृजिनाधिराज-वे महाभद्र ! जिनाधिराज ।
भवभ्रमोत्थश्रमहामहीन-कीर्ते मतिं नम्रमहामहीन ॥ १८॥ अव० हे महाभद्र ! जिनेश त्वं मम भवभ्रमोत्थश्रमहां संसारपरिभ्रमणसमुत्पन्नक्लमापहां । मतिं बुद्धिं । प्रदेयाः प्रवितर । वृजिनं पापं, आधिर्मानसी पीडा, ते एव राजा चन्द्रस्तस्मिन् रवे सूर्य, निष्प्रभावत्वविधायकत्वात् । अहीन शेषनागराजस्तद्वन्निर्मला कीर्तिर्यस्य स तस्सामन्त्रणम् ॥ १८॥
For
And Peso
Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206