Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
विहरमाण
॥ ९२ ॥
www.khatirth.org
भुजङ्गभर्तर्भवतोयदस्य, भिद्युग्रवायो भवतोऽयदस्य ।
वचश्चयः श्रीजिनराज पातान्मां दुर्गतेर्नम्रनराज पातात् ॥ १४ ॥
अव० – श्रीभुजङ्गस्वामिन् भवतो वाक्चयो मां दुर्गतेः पातात् पतनात् पातात् रक्षतात् । हे (उम्र) वायो समीर । कस्यां ? भिदि । कस्य ? भवतोयदस्य संसारघनस्य । भवतः कथंभूतस्य ? अयदस्य भाग्यप्रदस्य । हे नम्रनर । हे अज ! न जायत इत्यजः ॥ १४ ॥
1
व्रतं दधौ यः शुभरं विहायः, सदार्चितो भोगभरं विहाय ।
तमीश्वरं तीर्थकरं वाम, पञ्चेषुपंकोष्णकरं नुवामः ॥ १५ ॥
अव०—यो भोगभरं विहाय त्यक्त्वा शुभरं कल्याणदं व्रतं संयमं दधौ धृतवान्, तमीश्वरनामानं तीर्थङ्करं नुवामः स्तुवीमः । यः कथंभूतः १ विहायः सदो देवास्तैरर्चितः पूजितः । नु इति वितर्के स्तवनशक्तिसद्भावालोचनस्वरूपे । तं कथंभूतं ? वामः प्रतिकूलो यः पञ्चेषुः कामः स एव पङ्कः कर्दमः तस्मिन् उष्णकरं सूर्य, शोषकत्वात् ॥ १५॥ नमन्नमर्त्य सभाजनाय, माध्यस्थ्यचञ्चद्रसभाजनाय ।
नेमिप्रभाधीश्वर ! तेऽस्तु तारं, नमो बुधैर्धर्मरते तुतारम् ॥ १६ ॥
अव० - हे श्रीनेमिप्रभ ! ते तुभ्यं तारं रुचिरं नमोऽस्तु । ते कथंभूताय ? नराश्च मनुष्या अमर्त्याश्च देवास्तेषां सभाः
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
स्तवः
॥ ९२ ॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206