Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
विहरमाण
॥ ९१ ॥
www.khatirth.org
अव० - हे सूरप्रभाधीश्वर ! त्वं मुदा हर्षेण नतं मा मां आरात् अरीणां समूहात् रक्ष । त्वं किं कुर्वन् ? ददत् । का ? शैवरमां सिद्धिश्रियं । उदारां महतीं । अक्षयज्ञानेन तमोऽज्ञानं हरतीति स तस्य संबोधनं । यद्वा हे अक्षयज्ञान ! तमोहरेति (च) पृथक् संबोधनद्वयं । त्वं कथंभूतः ? आगोऽपराधः स एव सारङ्गो मृगस्तस्मिन सिंहः, नाशकारित्वात् । गतौ मोहरागौ यस्मात्सः ॥ ९ ॥
विशाल ! तायिन् सनय स्वराम - भेदिन् प्रबोधं जनयख राम ।
स्थैर्यास्त भूभृदर मे रुजन्तु - हितस्तमोजा हर मे रुजं तु ॥ १० ॥
अव० - हे श्रीविशाल ! जिन । हे तायिन् रक्षक । सह नयैर्वर्तते यः स सनयस्तस्यामन्त्रणं । स्वरेण कृत्वाऽमान् रोगान् भिनत्तीति स तस्यामन्त्रणं । प्रकृष्टं बोधं ज्ञानं जनयस्व कुरुष्व । तथा हे राम प्रधान । त्वं कथंभूतः ? स्थैर्ये - णास्तः पराभूतो भूभृद्वरो मेरुर्येन, जन्तूनां वत्सलो जन्तुहितः, ततः स्थैर्यास्तभूभृद्वरमेरुश्चासौ जन्तुहितश्चेति विशेषणसमासः ( कर्मधारयः ) । तु पुनर्मे मम तमोजां कर्मभवां रुजं रोगं हर ॥ १० ॥
आज्ञां वरां मूर्ध्नि वम धाम-नीराग यत्ते नवहेमधामन् । मानदिपे वज्रधराङ्गजारे --नव श्रिताच्चित्तधरां गजारे ॥ ११ ॥
अव०- ( हे वज्रधर ! प्रभो ) यस्मात्ते तवाज्ञां मूर्ध्नि वयं वहेम धरामः । यत्तदोर्नित्याभिसंबन्धात्तस्मादिति गृह्यते ।
For Private And Personal Use Only
Acharya Shri Kailassagarsun Gyanmandir
स्तवः
॥ ९१ ॥

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206