Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
ShriMahiyeJain AradhanaKendra
AAAA ART-५
नमोऽस्तु ते श्रीऋषभाननाय-प्रदाय शश्वदृषभाननाय ।
सुरासुरेन्द्रैमहिताय कामं, विनिम्नते विश्वहिताय कामम्॥७॥ अव०-हे श्रीऋषभानन! ते तुभ्यं नमोऽस्तु ते कथंभूताय ? वृषभाननाय “वृषो गव्याखुधर्मयोः श्रेष्ठे स्यात्" इत्याद्यनेकार्थवचनात् वृषा श्रेष्ठा मा कान्तिर्यस्य तत् वृषभं, वृषभमाननं मुखं यस्य स तस्मै । ते किं कुर्वते ? विनिनते हिंसते । के ? कामं मारं । काममत्यर्थम् ॥७॥
अनन्तवीर्यो वरराजितोय-वर्षे घनः संवरराजितो यः।।
तनोतु संसृत्युदयासमुद्रः, श्रेयो जिनो वः स दयासमुद्रः॥८॥ अव०–स जिनो वो युष्माकं श्रेयः कल्याणं तनोतु । योऽनन्तवीर्यनामाऽर्हन् वरा वाञ्छितार्थलाभास्तेषां राजिः श्रेणिः सैव तोयं नीरं तस्य वर्षे-वर्षणे घनो मेघसदृशोऽस्ति । संवर आश्रवद्वारनिरोधरूपस्तेन राजितः शोभितः। पुनः कथंभूतः? संसृतिः संसारस्तस्या उदयमस्यन्ति क्षिपन्तीति संसृत्युदयासा अर्था द्रव्या (जीवा) स्तेषां मुदं हर्ष राति ददाति यः स संसृत्युदयासमुद्रः । दया कृपा तस्याः सागरः॥ ८॥
सूरप्रभाधीश्वर मा मुदारा-नतं ददच्छेवरमामुदाराम् ।। रक्षाक्षयज्ञानतमोहरागः-सारङ्गसिंहो गतमोहरागः ॥९॥
EASIEAA5CACA-NE
प्र.१६
For Private And Pen Use Only

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206