SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain AradhanaKendra AAAA ART-५ नमोऽस्तु ते श्रीऋषभाननाय-प्रदाय शश्वदृषभाननाय । सुरासुरेन्द्रैमहिताय कामं, विनिम्नते विश्वहिताय कामम्॥७॥ अव०-हे श्रीऋषभानन! ते तुभ्यं नमोऽस्तु ते कथंभूताय ? वृषभाननाय “वृषो गव्याखुधर्मयोः श्रेष्ठे स्यात्" इत्याद्यनेकार्थवचनात् वृषा श्रेष्ठा मा कान्तिर्यस्य तत् वृषभं, वृषभमाननं मुखं यस्य स तस्मै । ते किं कुर्वते ? विनिनते हिंसते । के ? कामं मारं । काममत्यर्थम् ॥७॥ अनन्तवीर्यो वरराजितोय-वर्षे घनः संवरराजितो यः।। तनोतु संसृत्युदयासमुद्रः, श्रेयो जिनो वः स दयासमुद्रः॥८॥ अव०–स जिनो वो युष्माकं श्रेयः कल्याणं तनोतु । योऽनन्तवीर्यनामाऽर्हन् वरा वाञ्छितार्थलाभास्तेषां राजिः श्रेणिः सैव तोयं नीरं तस्य वर्षे-वर्षणे घनो मेघसदृशोऽस्ति । संवर आश्रवद्वारनिरोधरूपस्तेन राजितः शोभितः। पुनः कथंभूतः? संसृतिः संसारस्तस्या उदयमस्यन्ति क्षिपन्तीति संसृत्युदयासा अर्था द्रव्या (जीवा) स्तेषां मुदं हर्ष राति ददाति यः स संसृत्युदयासमुद्रः । दया कृपा तस्याः सागरः॥ ८॥ सूरप्रभाधीश्वर मा मुदारा-नतं ददच्छेवरमामुदाराम् ।। रक्षाक्षयज्ञानतमोहरागः-सारङ्गसिंहो गतमोहरागः ॥९॥ EASIEAA5CACA-NE प्र.१६ For Private And Pen Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy