Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
ततः कारणान्नोऽस्मान् । अङ्गजारेः कामशत्रोः अब रक्षेति संबन्धः । हे धामनीराग ! गृहनिरीह । नवं सद्यस्कं यद्धेम सुवर्णं तद्वत् धाम कान्तिर्यस्य तस्यामन्त्रणं । हे गजारे सिंह । कस्मिन् ? मानद्विपेऽहङ्कारकरिणि । अङ्गजारेः किंविशिष्टात् ? श्रितात् । कां ? चित्तधरां स्वान्तभूमिम् ॥ ११ ॥
भव्यास्तलोभाशममानमार, चन्द्राननार्हन्तममानमार ।
श्रये जिनाधीश ! सुधामनोज्ञ - वाचं भवन्तं वसुधामनोज्ञ ॥ १२ ॥
अव० - हे चन्द्रानन ! भवन्तमहं श्रये सेवे । भव्यानामस्ता लोभक्रोधाहङ्कारकामा येन स तस्य संबोधनं । न विद्यते मानं प्रमाणं यस्याः साऽमाना, सा चासौ मा च लक्ष्मीस्तां राति ददातीति स तस्यामन्त्रणम् ॥ १२ ॥
दूरीचरीकर्ति तमःसमूह, यद्वाक्चयो वर्यतमः समूहः 1
श्रीवज्रबाहोः कमलाशयस्य, तस्य क्रमौ नौम्यमलाशयस्य ॥ १३ ॥
अव० – तस्य श्री वज्रबाहोः क्रमौ चरणौ अहं नौमि स्तौमि । यद्वाक्चयः तमःसमूहमज्ञानपूरं दूरीचरीकर्ति । सं सामस्त्येन ऊहा वितर्का यस्मिन् । पुनः कथंभूतः अत्यर्थ वर्षो वर्यतमः । तस्य कथंभूतस्य ? लक्ष्मीस्थानस्य । अमल आशयश्चित्तं यस्य तस्य ॥ १३ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsun Gyanmandir

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206