Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 194
________________ विहरमाण स्तवः ॥१०॥ अव०-हे सुबाहुजिनेश त्वं ! भवोदपाने संसारकूपे पततो मम अव रक्ष । हे नवारिदावनीर!नवाः प्रत्यग्रा येऽरयो रागादिरिपवस्त एव संतापकारित्वाद्दावो दावानलस्तस्मिन्नीर उपशमविधायकत्वात् । हे समृद्धिवल्लीवनपल्लवनमेघ । त्वं किं कुर्वन् ? नुदन् क्षिपन् । किं ? ममत्वं ममी (म) कारभावं । त्वं कथंभूतः? नतालेः कृता ता लक्ष्मीर्येन सः ॥४॥ हे पोत! संसारमहोदधाव-भितो हि ते सारमहो दधाव । देयाः शिवं वः (नः) स सुजात रूप-स्मराङ्गकान्यस्तसुजातरूप ॥५॥ अव०-हे श्रीसुजातजिन ! स त्वं वो युष्माकं (नोऽस्माकं) शिवं मोक्षं देयाः । यस्य ते तव सारमहः प्रधानतेजः हि निश्चितं अभितः समन्ततो दधाव प्रससारेति संटंकः । हे रूपस्मर! अङ्गकान्त्याऽस्तं सुष्टु शोभनं जातरूपं सुवर्ण येन स तस्यामन्त्रणम् ॥५॥ दुःखं जिनेशापनयख कान्त-युसत्कृतोद्यदिनय खकान्त । स्वयंप्रभ त्वं विनमजनानां, कृतक्षमाजीवनमजनानाम् ।। ६॥ अव०-हे स्वयंप्रभ! त्वं विनमज्जनानां दुःखमपनयस्व निराकुरु । कान्ताः प्रधाना ये द्युसदो देवास्तैः कृतो विहित | हा उद्यदिनयो यस्य स तस्य संबोधनं । हे स्वकान्त ! न विद्यते कान्ता यस्य सोऽकान्तः, सुष्टु अतिशयेन मनोवाकायैः अकान्तः । कथंभूतानां विनमज्जनानां ? क्षमा क्षान्तिः सैव शीतलत्वाज्जीवनं जलं तत्र कृतं मज्जनं स्नानं यस्तेषाम् ॥६॥ NANCIOUSTEM ॥९ ॥ * For Prve And Person Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206