________________
ShriMaharjain AradhanaKendra
ज्ञानादिदानेन वर्तते यःसः। यो गिरा वाण्या माधुर्यादिगुणातिशयतः पीयूषमदं अमृतगर्व छिनत्ति । नमन्तश्च सेऽङ्गिहै नश्च तेषां रा द्रव्यं तस्याः कर्ता ॥२१॥
श्रीवर्धमानेशमलोभवन्तं, यः स्तौति भक्त्या विमलो भवन्तम् ।
सङ्गं शिवश्रीस्तरसा न तस्य, चिकीर्षते सा न रसानतस्य ॥ २२ ॥ | अव० हे श्रीवर्धमान! भवन्तं यो भक्त्या विमलः सन् स्तौति, तस्य जनस्य सङ्गं संयोगंसा जगत्प्रसिद्धा शिव-| श्रीनिर्वाणकमला न न चिकीर्षते इति, कोऽर्थः? चिकीर्यत एव " द्वौ नौ प्रकृत्यर्थ गमयतः” इतिवचनात् । भवन्तं कथंभूतं ? ईशं स्वामिनं । पुनः कथंभूतं ? न विद्यते लोभो यस्य स तं तथा । तरसा जवेन । तस्य कथंभूतस्य ? पृथ्वीस्थजननतस्य ॥ २२॥
श्रीवारिषेणं तरसा परागं, भव्यत्रजत्राणरसापरागम्।
नमामि कीर्त्यस्तहरं नदीनं, गाम्भीर्यतो मोहहरं नदीनम् ॥ २३ ॥ अव०-तरसा बलेन परागं प्रकृष्टपर्वतं मेरुमित्यर्थः। भव्यबजत्राणे रसोऽभिलापो यस्य, अपगतो रागो यस्मात्, ततो भव्यबजत्राणरसश्चासौ अपरागश्चेति विशेषणसमासः (कर्मधारयः) तं । कीर्त्याऽस्तो हर ईश्वरो येन स तं । नदीनं समुद्रं । कस्मात् ? गाम्भीर्यतो गम्भीरतागुणेन ॥ २३ ॥
AUCRACNE SCIENCREACROCOCRACROCOCR
For
And P
u se Only