Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org इत्थं ते जिनपुङ्गवस्य भगवन् प्रोद्दामधामान्वितं पादानं परभागभृत्रिभुवनस्तुत्यं स्तुवन्तोऽनिशम् । दक्षं कर्मविपक्षपक्षदलने भव्या भवन्तु क्षमाः, कल्याणाश्रय मुक्तिमातुमखिलं तीर्त्वा भवाम्भोनिधिम् ॥७॥ अव० - हे भगवन् । पुनः हे कल्याणाश्रय ! हे पार्श्वदेव ! भव्या मुक्तिमपवर्ग आप्तुं प्राप्तुं क्षमाः समर्था भवन्तु । किं कृत्वा ? अखिलं भवाम्भोनिधिं तीर्त्वा । भव्याः किं कुर्वन्तः ? इत्थममुना प्रकारेण ते तव जिनपुङ्गवस्य जिनेन्द्रस्य पादाब्जं चरणारविन्दं अनिशं निरन्तरं स्तुवन्तः । कीदृशं पादाब्जं ? प्रोद्दामधामान्वितं प्रकृष्टतेजोयुक्तं । पुनः कीदृशं ? परभागभृत् गुणोत्कर्षधारकं । पुनः ० त्रिभुवनस्य स्तुत्यं स्तवनाहै । पुनः दुष्कर्मशत्रुवर्गविनाशने दक्षं चतुरम् ॥ ७ ॥ ॥ इति श्रीपार्श्वलघुस्तवावचूरिः ॥ For Private And Personal Use Only Acharya Shri Kailasagarsun Gyanmandir

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206