Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 188
________________ Shri Mahavir Jain Aradhana Kendra श्रीपार्श्व ॥ ८७ ॥ www.khatirth.org अव० - अङ्गेति संबोधने हे देवाधिदेव ! त्वं अङ्गभाजां प्राणिनां । आधिहरः आधिं मनसः पीडां हरतीति आधिहरः । असीति शेषः । पुनः हे सुज्ञान ! सुष्ठु शोभनं ज्ञानं यस्य तत्संबुद्धौ । त्वं सुज्ञानभिवुद्धरूपोऽसि सुज्ञैर्विशेषज्ञैरपि अनभिबुद्धमज्ञातं रूपं स्वरूपं यस्य सः । पुनः हे साराङ्गसार ! सारं ज्ञानं विद्यते येषु तानि साराणि " मत्वर्थे अः " तानि अङ्गानि येषां ते साराङ्गास्तेषु सारः प्रवरः तत्संबुद्धौ यद्वा साराणि श्रेष्ठानि अङ्गानि येषामिति समासः । पुनः हे वितीर्णभूयः कल्याण ! वितीर्णे दत्तं भूयः प्रचुरं कल्याणं स्वर्णादिद्रव्यं येन स याचकेभ्य इति शेषः, तत्संबुद्धौ । त्वमेवाङ्गभाजां कल्याणकृत् शिवंकरोऽसि । एतेन भगवतः सर्वोत्कृष्टत्वं सूचितम् ॥ ५ ॥ यैरर्च्यसे त्वं वरवैद्यराज!, मनोऽभिरामैः सुमनोभिरामैः । कर्माभिधैरुज्झितभूघनास्ते, विसारिलोकेश ! विसारिलोके ॥ ६ ॥ अव० - हे वरवैद्यराज रागद्वेषाद्यन्तरोपतापक्षयंकरत्वादित्युक्तिः। पुनर्हे विसारिलोकेश ! विशिष्टः सारो बलं अस्त्य - स्येति विसारी, 'अस्त्यर्थे इन्, ' लोकस्येशः लोकेशः, विसारी चासौ लोकेशश्च विसारिलोकेशस्तत्संबुद्धौ । हे पार्श्वदेव सुमनोभिः शोभनमानसैः, अत एव मनोऽभिरामैः सर्वजनमनोवल भैरित्यर्थः । एवंभूतैर्यैः प्राणिभिस्त्वमर्च्यसे । ते प्राणिनः । अस्मिन् विसारिणि विस्तारवति लोके संसारे । कर्माभिधैः आमैः कर्मरूपै रोगैः । उज्झितभूघनाः त्यक्तदेहा भवन्तीति शेषः, कर्म अभिधा नामधेयं येषां ते तैः । अर्च्यसे इति कर्मणि लट् ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir लघुस्तवः ॥ ८७ ॥

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206