Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
AcharpanMalamagranemand
श्रीपार्श्व
सघुस्तवः
॥८६॥
SUSCANSACANSAACADSAN
स्मेरातसीसूनसमप्रभा वा-समप्रभावा भवदीयमूर्तिः।
विभाति वामाप्रभव ! त्रिलोके-ऽभव त्रिलोकेनसमय॑पाद॥२॥ अव हे वामाप्रभव! वामायाः प्रभव उत्पत्तिर्यस्य तदामन्त्रणं । पुनः हे अभव! न विद्यते भवः संसारापत्तिर्यस्य तदामन्त्रणं हे मुक्ता(ना)दिविभाव । पुनर्हे त्रिलोकेनसम→पाद! तृतीयो लोकस्त्रिलोकः,पूरणप्रत्ययोऽत्र वृत्तौ गतार्थत्वान्न युज्यते । त्रिलोकस्य लोकत्रयापेक्षया स्वर्गस्य इनः स्वामी इन्द्रः तेन तस्य वा समच्यों पादौ यस्य तदामन्त्रणं। हे पार्श्वदेव! भवदीयमूर्तिः कीं। त्रिलोके विभाति शोभते इत्यन्वयः। त्रिसंख्यो लोकः "शाकपार्थिवादिः" त्रयाणां लोकानां समाहार इति द्विगौ तु ईबभावो दुर्वारः स्यात् । कीदृशी भवदीयमूर्तिः स्मेराणि विकसितानि यानि अतसीसूनानि उमापुष्पाणि तैः समा तुल्या प्रभा कान्तिर्यस्याः सा विनीलवर्णत्वादित्यर्थः । अतसीशब्देन लोकभाषया “अलसी" इत्युच्यते । पुनः कीदृशी? असम उत्कृष्टः प्रभावो यस्याः सा, यत्स्मरणेन स्वर्गादिप्राप्ते(प्ति)रिति भावः। असमेति वाशब्दात् परोऽकारश्लेषो बोध्यः । वाशब्दो निश्चये पादपूरणे वा, निपातानामनेकार्थत्वात् ॥२॥
तवेश पादाम्बुजमादरेण, हृद्यादधाना जनता दरेण।
मुक्ता भवेदेकपदेऽपराया, निवेशवन सौख्यपरंपरायाः॥३॥ १ पात्रादिवजितोऽदन्तोत्तरपदेति न काऽपि शङ्कापकाविलता तथा, व्यवयवो वा लोकत्रिलोकः.
For
And Personalise Only

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206