Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 166
________________ Acharya Shresgarten Gyaan काव्यम्, षट्श्लोकी. टीका-हे "संतत” सं शोभनार्थे विशिष्टवीर्यविज्ञानादिभिः तत व्याप्त, 'सं अव्ययं शोभनार्थे इत्यनेकार्थः । हे "तान्त" ता लक्ष्मीरन्ते समीपे यस्य स हे तान्त । भवान् । “सता” सजनानां । "रसं" निरुपमं परमामृतस्वादं । ॥७६॥ "असात" अदात् । अत एव "तान्तासातान्तं" "अतत” अतनोत्, तान्तं विस्तीर्ण असातं दुःखं तस्य अन्तं नाशं कृत-17 वानित्यर्थः । कथंभूतः सः? “सारसारसतारान्तरससारसरः” सारं बलं तदेव सारसश्चन्द्रः, तारान्ताः रूप्यावयवाः, दरसः पारदः, तद्वदुज्वलं विमलं सारं जलं तस्य सरस्तडागः अतुलबहलबलाधार इत्यर्थः ॥२॥ सारतां रसता तार, तारताररसारत । तातारारसतां तात-तारातरसतः सतः॥३॥ टीका-हे "तारताररसारत" तारा नक्षत्राणि, तारा निर्मलमौक्तिकानि, रसो जलं, तद्वन्निर्मलं अरतं ब्रह्म यस्य |तस्थामन्त्रणं हे तारताररसारत । हे "ताततारातः" ताताः अनुकम्स्या: सत्त्वाः तेषां तां लक्ष्मी रातीति राता तस्याम त्रणं हे ताततारातः। हे "तात" भवता करुणारसलालसेन । "सतः” विदुषः । “असतः” मूर्खानपि अधिलक्ष्य (न त्यजति)। "तारं" उच्चतरस्वरं । सारतां परमधर्मश्रेष्ठतां सिद्धान्तमुखेन "रसता" कथयता । अहमज्ञोऽपि “अरसतां" नीरागतां । “आर" प्राप ॥३॥ रसरासासरसासा-सारसारससारसं । रसासाररसासारं, रसं सरससारसम् ॥४॥ टीका-हे "रसरासासरस" रसः शान्तरसः,रासा भाषाशृङ्खलकानि विविधभाषाचित्राणि तेषां आस उपवेशनं यत्र | ॥ ७६॥ For Pale And Pen Use Only

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206