Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 177
________________ ShrimahiyeJain AradhanaKendra Acharyashnasagaran Gyaan SACROCCOLOROSCORROCCAS कृष्णं सौख्यमुख्यलक्ष्मीभोगयोगे गदाग्रजमिवेति । पुनः कथंभूतं ? विशदं निर्मलं कर्ममलरहितमिति । यद्वा विशत् प्रविशत् अं परमब्रह्म यस्मिन्नसौ विशदस्त, परमब्रह्ममयत्वात् । यथैकाक्षरनाममालायां-“अं भवेत् परमं ब्रह्मेति" पुनः कथंभूतं ! शदं शः शान्तिशोभा उपशमरूपा तं ददातीति शदः तं । यथैकाक्षरनाममालायां-'शः परोक्षे समाख्यातः शान्तिशोभावरेण्ययोः" इति । पुनः कथंभूतं ? सदं सं श्रेष्ठं तद्ददातीति सदः तं प्रधानवस्तुस्तोमदायकमिति । अत्र शसयोरैक्यं । यथैकाक्षरनाममाला-"सकारः कीर्तितः श्रेष्ठे” इति ॥ ३ ॥ तेजोनिशान्तं तरसा रसारसा-लीलं शिवागे जलदं लदं लदम् । शिवांगनाया ह्यपतिं पति पति, पाच भजेऽहं सकलं कलंकलम् ॥ ४॥ व्याख्या-तरता शीघ्रं पार्श्वमहं भजे । अन्यत्सर्वं प्राग्वत् । कथंभूतं पार्श्व ? तेजोनिशान्त तेजसो वर्चसोऽर्थाज्ज्ञानज्योतिषो निशान्तमिव यः स तं तेजोनिशान्तं तेजःस्थानं । पुनः कथंभूतं ? रसारसालीलं रसायां पृथिव्यां ये रसा| अर्थात् स्त्रीरतरसास्तेषामाली श्रेणिस्तां लुनातीति रसारसालीलस्तं रसावशारसराशिरहितमित्यर्थः । पुनः कथंभूतं ? शिवागे जलदं शिवं मङ्गलं तद्रूपोऽगो वृक्षस्तत्र जलद इव यः स तं शिवागे जलदं, मङ्गलतरुशिरःसिञ्चनजलदपटलं ।। पुनः कथंभूतं ? लदं लो दानं अर्थादत्र दानमभयदानं तं ददातीति लदस्तं अभयदानदायकमित्यर्थः । पुनः कथंभूतं ? लदं लो व्याजः कपटस्तं द्यति खण्डयतीति लदस्तं कपटकोटिखण्डनकरमिति । यथैकाक्षरनाममाला-"ल इन्द्रे लवणे For P l And Use Only

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206