Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 182
________________ ShrimahiyeJain AradhanaKendra Achana Shalagarsun Gyaman श्रीपार्श्व० स्तव अव०-पुनः किंविशिष्टं जिनं पाच ! दर एव मन्दरो मेरुस्तं मिनाति मनातीति तथा तं । पुनः दरः ईषन्मन्देषु मूर्खेष्वपि दयावत्त्वात् अर्थात् प्रकटिता रमा लक्ष्मीर्येन स तं । पुनःगता रंगतरंगाः सांसारिकहर्षकल्लोला यस्य यस्माद्वा | |सः, अतिशयेन गतरंगतरंगः गतरंगतरंगतरस्तं। पुनःगतं शोभनगमनं तेन राजते इति गतरस्तं डप्रत्ययः। पुनःगरो विषं संगरस्य संग्रामस्य संगरः प्रतिज्ञा तयोः संगे रसो यस्य तथा तादृशं न कदापि।पुनःवरं प्रधान नवरं केवलं । नवनं नवः स्तुतिस्तेन राजते इति नवरस्तं । पुनः नवो नवीनो रः शब्दो रा दानं वा यस्य तथा तं, "रा दाने" इति वचनात् ॥२॥ रमुदारमुदारमुदारमुदा-समिनं समिनं समिनं समिनं । विदि तं विदितं विदितं विदितं,नमतेनमतेन मतेन मतेः॥३॥ अव-भो भव्याः उदारमुदाऽद्भुतहर्षेण तं ईदृशं रं पुरुषं वीतरागं नमत यूयं । कीदृशं ? उदारं उद्गतं अरीणां समूह आरं यस्मात् स तं उदारं । पुनः कीदृशं ? उदारं उत्कृष्ट, यद्वा उद्गता आरा शस्त्री यस्मात्स उदारस्तं । पुनः० असमं असदृशं अर्थविज्ञानादि वस्तु विद्यते यत्र सः असमीतं असमिनं । पुनः समिनं उपशमवन्तं, शसयोरैक्यं । पुनः समिनं समाः सजनाः सेवकत्वाद्विद्यन्ते यस्य स समी तं । पुनः० सम्यक् इनं स्वामिनं समिनं । पुनः इनः सूर्यः |तद्वत् , मतेन प्रकाशकत्वात् इष्टेन, मतेन शासनेन कृत्वा, विदि पण्डितलोके विदितं ख्यातं । पुनः विद् ज्ञानं तेन इतं प्राप्तं । पुनः विगतं दितं खण्डितं ज्ञानदर्शनादिवस्तु यस्मात्स तं । एतावता सर्वमपि शोभनं वस्तु पूर्ण लभ्यत ४ इति । मतेः सकाशात् ॥३॥ For P ale And P Use Only

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206