Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
ShrimahiyeJain AradhanaKendra
Achana Shalagarsun Gyaman
श्रीफलव०
स्तोत्रम्
कीर्तितो ज्ञाने, निषेधेऽपि प्रकीर्तितः” इति । पुनः कथंभूतं ? नदं नो बुद्धिरर्थात् सद्बुद्धिस्तं ददातीति नदस्तं नरें। यथैकाक्षरनाममाला-"नो बुद्धौ ज्ञानबन्धयोः” इति । एवंविधं पार्श्वमहं सद्विनय प्रवरविनयं यथा स्यात्तथा भजे इत्यादि प्राग्वत् ॥६॥ एवं पार्श्वजिनेश्वरः सुयमकैर्भक्त्या प्रशस्तःस्तुतः,श्रीमच्छीफलवर्द्धिराद सुमनसामीशैःसतां वन्दितः। चारित्रोदयपादपास्तिरसिकेन प्रातु सौख्यं मया.सद्धामात्मभवो हि विश्वशिवकन्दःसूरचन्द्रर्षिणा॥७॥
व्याख्या-पाश्चेजिनेश्वरः सतां सजनानां सौख्यं प्रातु ददातु । कथंभूतः पार्श्वजिनेश्वरः एवममुना प्रकारेण| मया सू(रि)चन्द्रर्षिणा स्तुत ईडितः । कया ? भक्त्या। कैः स्तुतः ? सुयमकैः प्रधानयमकैः । पुनः कथंभूतः ? प्रशस्तः प्रधानतमः । पुनः कथंभूतः ? श्रीमच्छ्रीफलवर्द्धिराट् श्रीविद्यते यस्यां सा श्रीमती, श्रीमती चासौ श्रीफलवर्धिश्च श्रीम|च्छ्रीफलवर्द्धिस्तस्यां राजते इति श्रीमच्छ्रीफलवर्द्धिराट् । पुनः कथंभूतः सुमनसामीशैः देवानामधिपैः सुरेश्वरैर्वन्दितः प्रणतः। पुनः कथंभूतः ? सद्वामात्मभवः सती प्रधाना या वामा तस्या आत्मा शरीरं तस्मिन् भवतीति तस्माद्भव उत्पत्तिर्यस्य स वा सद्बामात्मभवः वामाङ्गजात इत्यर्थः । पुनः कथंभूतः ? विश्वशिवकन्दः विश्वानि समस्तानि यानि |शिवानि तेषां कन्द इव यः स विश्वशिवकन्दः समस्तशस्तमूलं इत्यर्थः । कथंभूतेन मया ? चारित्रोदयपादुपास्तिरसिकेन चारित्रोदयानां या पादुपास्तिः क्रमतामरससेवा तत्र रसो विद्यते यस्य स तेन । अत एव वाचनाचार्यश्रीचारित्रोदयपादपद्मसेवाकरणतत्परेणेति मया ॥७॥
॥ इतिश्रीफलवर्द्धिपार्श्वनाथस्तवः ॥
RCRACRORRESS
For
P
l
And
Use Only

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206