Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 172
________________ Shri Mahav Jain Aradhana Kendra श्रीवर्धमान ॥ ७९ ॥ www.kobatirth.org अव० - हे वीर ! सहसा शीघ्रं अव रक्ष मां भवभयादिति शेषः । हे सार्वसिंह जिनशार्दूल । ( सिंहेन लक्ष्मगतेन सह वर्तते यः स सिंहः ) । अशिवस्यामङ्गलस्य य ऊहः समूहस्तद्रूपो बैरी शत्रुस्तस्य पराजये वीरः यः सोऽशिवोहवैरिवीरः तस्य संबोधनं । पुनः हे मेघसमनाद ! । हे स्वर्णप्रधानकायकान्ते ! ॥ २ ॥ सुरासुरेशसंसेव्य, शम्बरारिसहोहर । श्वोवसीयस संराशि- वर्यावास वशीश्वर ॥ ३ ॥ अव० - हे सुरासुरेशसंसेव्य इति सुगमं । हे मदनारिबलहर । हे मङ्गलसमूहप्रधानगृह । हे मुनिनायक ॥ ३॥ संसारवारिराशीरा - बरोर्वसेय संवर । श्रेयःसहस्रबर्हाली - हास श्रीवासरेश्वर ॥ ४ ॥ अव० – संसारसमुद्रजलशोषणे प्रधानागस्तिसम । संवरणं संवरः, संवरो वैराग्यं ( अस्मिन् स संवरस्तस्य ) संबुद्धौ | हे संवर । मङ्गलकमलश्रेणिविकाशशोभादिनकरस्तस्य संबोधनं ॥ ४ ॥ अंहोर सारुहवार्क्ष (लोष) (लक्ष) हव्यवाह बलांसल | वारीशसूर सूरीश, सूरांशो सहसा सह ॥ ५ ॥ अव० - हे पातकवृक्षवनदाहकृशानुसमान । हे बलपुष्ट ! हे वलमयेत्यर्थः । वारीशसूर्लक्ष्मीस्तां राति ददातीति यः स वारीशसूरः तस्य संबोधनं हे लक्ष्मीप्रद । हे पण्डितजननायक । हे सूर्यसमकान्ते । हे सह ! हे समर्थ ! (सहसा - युगपत् ) सर्वाशापूरणे इति शेषः ॥ ५ ॥ हारिहारहरहास-क्षीरक्षीराम्बुसद्यशः । शिववृक्ष शिरः सार-क्षीरवाह व्यवायहृत् ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir जिनस्तवः ॥ ७९ ॥

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206