Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 168
________________ Acha Shnagan Gyaan चतुःश्लो. ॥७७॥ टीका-हे “सान्तान्तराररार” अन्तेन सह वर्तत इति सान्तो विनाशशीलोऽन्तर्मध्य आरो वैरिगणस्तस्य ध्वंसाय, |रा तीक्ष्णा रा शस्त्री (यस्य) तस्यामन्त्रणं हे सान्तान्तराररार। हे "रसारसस" रसो विषं तद्रूपा अरसास्तुच्छरसाः शृझारादयस्तान् स्यतीति क्षयं नयतीति व्याख्यामुखेन । हे "संतत" हे "रससारतरान्तर" रसः शान्तरसः स एव सारतरः श्रेष्ठतरः अन्तरः आत्मा यस्य तस्यामन्त्रणं हे रससारतरान्तर । हे विभो त्वं भव्यानां "तं" सकलाप्तप्रतीतं । “सान्तरान्तरान्तान्तं” सान्तरः सविशेषः अन्तरः अन्तरङ्गः अन्तः स्वरूपं तस्य अन्तं निश्चयं सकलजगज्जन्तुजातजीवान् ददा (सि)ति स्मेति ॥ ५॥ ॥ इति षट्श्लोकीविवरणम् ॥ । अथ चतुःश्लोकी स्तुतिः। सहसा महसा सहसा महसा, महता परमं महताऽपरमम् । शमितवमृतं शमितवमृतं, गवि तीर्थकरं गवि तीर्थकरम् ॥ १॥ व्याख्या-सहसाऽतर्कितं । महत पूजयत । तीर्थकरमिति संबन्धः । किंभूतं ? परमं प्रकृष्टं । केन ? सहसा बलेन, तथा महसा उत्सवेन, महसा तेजसा । महतेति त्रयाणामपि विशेषणं । अपरमं निवृत्तकामं, "रमः कान्ते रक्ताशोके, मन्मथे च रमा श्रियां" इतिवचनात् रमो मन्मथः । शं सुखं इतं प्राप्ठं स्वमृतं प्रधानमोक्षो येन तं । शमितं निवर्तितं RSACREARREARRESS ॥७७॥ For Private And Person Use Only

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206