________________
Acha Shnagan Gyaan
चतुःश्लो.
॥७७॥
टीका-हे “सान्तान्तराररार” अन्तेन सह वर्तत इति सान्तो विनाशशीलोऽन्तर्मध्य आरो वैरिगणस्तस्य ध्वंसाय, |रा तीक्ष्णा रा शस्त्री (यस्य) तस्यामन्त्रणं हे सान्तान्तराररार। हे "रसारसस" रसो विषं तद्रूपा अरसास्तुच्छरसाः शृझारादयस्तान् स्यतीति क्षयं नयतीति व्याख्यामुखेन । हे "संतत" हे "रससारतरान्तर" रसः शान्तरसः स एव सारतरः श्रेष्ठतरः अन्तरः आत्मा यस्य तस्यामन्त्रणं हे रससारतरान्तर । हे विभो त्वं भव्यानां "तं" सकलाप्तप्रतीतं । “सान्तरान्तरान्तान्तं” सान्तरः सविशेषः अन्तरः अन्तरङ्गः अन्तः स्वरूपं तस्य अन्तं निश्चयं सकलजगज्जन्तुजातजीवान् ददा (सि)ति स्मेति ॥ ५॥ ॥ इति षट्श्लोकीविवरणम् ॥
। अथ चतुःश्लोकी स्तुतिः। सहसा महसा सहसा महसा, महता परमं महताऽपरमम् ।
शमितवमृतं शमितवमृतं, गवि तीर्थकरं गवि तीर्थकरम् ॥ १॥ व्याख्या-सहसाऽतर्कितं । महत पूजयत । तीर्थकरमिति संबन्धः । किंभूतं ? परमं प्रकृष्टं । केन ? सहसा बलेन, तथा महसा उत्सवेन, महसा तेजसा । महतेति त्रयाणामपि विशेषणं । अपरमं निवृत्तकामं, "रमः कान्ते रक्ताशोके, मन्मथे च रमा श्रियां" इतिवचनात् रमो मन्मथः । शं सुखं इतं प्राप्ठं स्वमृतं प्रधानमोक्षो येन तं । शमितं निवर्तितं
RSACREARREARRESS
॥७७॥
For Private And Person Use Only