SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ स्वस्यात्मनो मृतं मरणं येन सः। गवि भूम्यां । तीर्थस्य सङ्घस्य के सुखं रातीति । गवि, स्वर्गे च यतः सम्यग्ज्ञानदर्शनगुणालतत्वेन अविरतगुणस्थानवर्तित्वेन च सम्यग्दृष्टिदेवदेवीनां शङ्करत्वात् ॥१॥ रुचिरारुचिरा रुचिराजिघना, जनका जनका जनकामभिदः। महितामहिता महिता दधता-मतमामतमा मतमामरुहाः॥२॥ | टीका-रुचिरा मनोज्ञा रुचिमनोरथस्तां रान्ति ये ते । रुचिराजी प्रभाशोभी घनो देहो येषां ते। जनकाः पितृतुल्याः। तथा जनकाः । कस्याः जनानां कामस्य भिदू भिदा तस्याः । महिः । सोत्सवा ताँ चारित्रलक्ष्मीर्येषां ते महिता आमेषु रोगेषु हिताः पथ्याः। तथा लोकोक्तिः अस्मिन् लोके (रोगे) हरीतकी हितेति आमहिता रोगहरत्वात् , महिताश्च ते आमहिताश्च महितामहिताः । महिता इन्द्रादिभिः पूजिताः । दधतां पुष्णन्तु । तमो लोभः स एवाधिव्याधिहेतुत्वात् आम इव तमामः, न विद्यते तमामो येषां ते (अतमामाः) अतिशयेन अतभामाः अतमामतमाः। मतमा सिद्धान्तलक्ष्मी अभीष्टश्रियं वा । अरुहा अर्हन्तः इति ॥२॥ शमरं शमरं दधतं दधतं, समयं समयं सदयं सदयम् । सुपदं सुपदं नुत तं नु ततं, बहुं( बहुधामहितं महितम् ॥३॥ * ता सा श्रीः कमलेन्दिरेति कलिकालसर्वज्ञपादाः. For And Person Lise Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy