SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Acharya ankalamagranepamana चतुःश्लो० स्तुतिः SONASSCORECAROSAGAR टीका-नुत स्तुत तं समयं सिद्धान्तं इति योगः। किंभूतं ? दधत पुष्णन्तं । किं ? सुखं । अरं क्षिप्रं भवनकाला|दनन्तरमित्यर्थः। किंभूतं शं? शमरं कषायोपशमदं दधतं विधाणं । समयमाचारं । सदयं सकृपं । सन्विद्यमानोऽयः शुभावहो विधिर्यस्य तं । शोभनपदं । सुपदं वरव्यवसायं स्वर्गापवर्गदानुष्ठानसमर्थमित्यर्थः । न्विति पादपूरणे । ततं विस्तीर्ण । बहुधेति क्रियाविशेषणं । बहुधाम प्रचुरप्रभावं हितं अनुकूलमित्यर्थः ॥३॥ विभया सितया विभयाऽऽसितया, कलिता परदा कलितापरदा । वरदानकरा वरदानकरा, सतिगौरवमा सति गौरव मा॥४॥ टीका-विभया निभीतिः। सितया धवलया विभया कान्त्या । आसितया शरीरस्थितया । कलिता युक्ता । परदा शत्रुखण्डिका । कलितापरदा विग्रहजनितचित्तोद्वेगविलेखिनी । वरं मनोवाञ्छा, तं ददातीति वरद एवंविध (आन) स्तदभिनयसूचकः करो हस्तो यस्याः सा । वरान(न्)सम्यक्त्वाद्यवाप्त्या प्रधाना(न्)दयते पालयतीति वरदमेवंविध |कं ज्ञानं राति या सा । सती विद्यमाना गौरवस्य मा लक्ष्मीर्यस्याः। खेति मिन्नेति इस्वः (१)। सति सदाचारे । हे गौः। हे सरस्वति !। अव रक्ष । मा मामिति ॥४॥ चतसृष्वपि स्तुतिषु तोटकच्छन्दः॥ ॥ इति स्तुतिः॥ ॥ ७८॥ For Private And Personalise
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy