________________
Shri Mahavir Jain Aradhana Kendra
प्र० १४
www.kobatirth.org
। अथ श्रीवर्धमानजिनस्तवः (निर्वर्ग्य : ) ।
( सावचूरि: )
श्रेयःशालः सहःशाली, श्रीवीरः श्रेयसां हि वः । वारंवारं वरं वारं, वासवावासवासरः ॥ १ ॥
अवचूरिः — श्रीवीरः श्रेयसां मङ्गलानां वरं श्रेष्ठं वारं समूहं वारंवारं मुहुर्मुहुः वो युष्माकं । ददातु इत्यध्याहार्य । किंभूतः ? श्रेयःशालः श्रेयसि मोक्षे शाला गृहं यस्य सः, सिद्धा (दया) वासत्वात् । पुनः कथंभूतः १ सहसा बलेन शालते शोभत इति सहःशाली । पुनः किंभूतः ? वासवावासे स्वर्गे वासमावासं स्थितिं राति ददातीति वासवावासवासरः स्वर्गवासप्रदः इति ॥ १ ॥
सहसा सार्वसिंहावा - शिवोहवैरिवीर हे । वारिवाहरव वीर, वसुसारशरीररुक् ॥ २ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir