________________
Shri Mahavir Jain Aradhana Kendra
श्री पार्श्व०
॥ ६९ ॥
www.kobatirth.org
तैर योगेन विवेकसेक - मुक्तास्ति या सापि जिनावतंस ! | विलोकिते कान्तिकत्व दास्य - चन्द्रोदये नृत्यति चक्रवाकी (स० ) ॥ २ ॥ टीका - चन्द्रोदये चक्रवाकी नृत्यतीति समस्या । हे जिनावतंस ! सापि चक्रवाकी नृत्यति । क्व सति ? कान्तिकलत्वदास्यचन्द्रोदये विलोकिते सति-कान्त्या कलं मनोहरं कान्तिकलं यत्त्वदास्यं कान्तिकलत्वदास्यं तदेव चन्द्र|स्तस्योदयस्वस्मिन् विलोकिते सति । का सा ? या विवेकसेचनं तेन मुक्तास्ति । केन ? तैरश्ययोगेन तिर्यग्भावेन ॥ २ ॥ पुरः प्रकीर्णानि कपोलपाली - तले तवास्ये प्रतिबिम्बितानि ।
• निभालय संदेग्धि बुधो जनः किं, चन्द्रस्य मध्ये कदलीफलानि (स० ) ॥ ३॥ टीका—हे देव ! इत्यध्याहारः । बुधो जन इति संदेग्धि संदेहं करोति - किं चन्द्रस्य मध्ये कदलीफलानि १ । किं कृत्वा ? निभालय दृष्ट्वा । कथंभूतानि ? पुरोऽग्रतः प्रकीर्णानि विस्तारितानि । तवास्ये निर्मले कपोलपालीतले गल्लस्थलप्रदेशे प्रतिविम्बितानि संक्रान्तानि दृष्टा । भगवतो मुखं चन्द्रोपमं तत्र निभाव्य संदेग्धि इति युक्तमेव ॥ ३ ॥ यैर्निर्जितैः पञ्चशरेण चके, कण्ठे कुठारः कमठे ठकारः (स० )
अकीर्तिनाट्यस्य च वादितोऽलं, साम्यं क तेषां सदां त्वयाऽस्तु ॥ ४ ॥ टीका- कण्ठे कुठारः कमठे ठकारः इति समस्या । हे देव ! त्वया सह घुसदां देवानां सादृश्यं व कुतोऽस्तु ? ।
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
स्तवः
॥ ६९ ॥