________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
। अथ श्रीपार्श्वजिनस्तवः ।
( सटीकः )
श्रीपार्श्वनाथं तमहं स्तवीमि त्रैलोक्यलोकं पृणघामधाम ।
सामोदमुद्भासि यदीय कीर्ति - रामामुखं चुम्बति कार्तिकेयः (स० ) ॥ १ ॥
टीका - अहं श्रीपार्श्वनाथं स्तवीमि । कथंभूतं ? त्रैलोक्यस्य लोकः तं पृणातीति त्रैलोक्यलोकंपूणं, त्रैलोक्यलोकंपूणं यद्धाम तेजः त्रैलोक्यलोकंपूणधाम, तस्य धाम गृहं त्रैलोक्यलोकंपृणधामधाम । तं कं ? यदीयकीर्तिरामामुखं कार्तिकेयशुम्बति । सामोदं सहर्षं । उद्भासत इत्येवंशीला उद्भासिनी, उद्भासिनी चासौ यदीया कीर्तिश्च उद्भासियदीयकीर्तिः, सा एव रामा तस्या मुखं कार्तिकेयः स्पृशति ॥ १ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir