________________
ShriMahavir Jain ArachanaKendra
Acha Shri
S
an Gyanmar
-SARLASSAULASRUSA
तेषां केषां ? यैः पञ्चशरेण निर्जितैः कदन्ण जितैः । कण्ठे स्कन्धप्रदेशे कुठारश्चक्रे कृतः। च पुनः । अकीर्तिनाव्यस्य ठकारः ठणकारः कमठे कमठदैत्ये अलमत्यर्थं वादितः। कमठेन भगवत उपसर्गाः कृताः, तेन जनमध्येऽद्यापि कमठस्याकीर्ति पटहो वाद्यति । तेषां देवानां त्वया सह साम्यं कथमस्तु ? न कथञ्चिदपीत्यर्थः ॥ ४ ॥
अभव्यदौर्भव्यतयाऽङ्गभाजां, येषां त्वदास्ये सुभगेऽपि दृष्टे ।
संतापसंपत्तिरुदेति तेषा-मयं शशी वह्निकणान् प्रसूते (स.)॥५॥ है टीका-अयं शशी वह्निकणान् प्रसूते इति समस्या। हे देव ! येषामङ्गभाजां त्वदास्ये त्वन्मुखे सुभगेऽपि दृष्टे सति । पसंतापस्य संपत्तिः संतापसंपत्तिरुदेति उत्पद्यते । कया? अभव्यदौर्भव्ययोर्भावः अभव्यदौभव्यता तया । तेषामगिनां अयं शशी वह्निकणान् प्रसूते । भगवतो मुखं चन्द्रोपमं, अतो युक्तमेवेति ॥५॥
त्वदानलीलादलितप्रतापो, देव ! युकुम्भस्तव शक्तिमातुम् ।
भृगोः पतन्नादमिमं तनोति, ठठंठठंठंठठठंठठंठः (स०)॥६॥ टीका-ठठंठठंठंठठठंठठंठः इति समस्यापदं । हे देव ! धुकुम्भः कामकुम्भः । इमं नादं तनोति विस्तारयति ।। कथंभूतः ? त्वद्दानस्य लीला त्वद्दानलीला तया दलितो निराकृतः प्रतापो वाञ्छापूर्तिरूपो यस्य स त्वद्दानलीलादलितप्रतापः। किं कर्तुं ? तव शक्ति दानसामर्थ्य । आप्तुं लब्धं। किं कुर्वन् ? भृगोः पर्वतशृङ्गात् पतन् । इति |
NAGAROOPERATORS
For Pavle And Person Use Only