________________
ShriMahavir Jain ArachanaKendra
Acha Shri
S
an Gyanmar
SAR
विश्वकनायक ! कला न हि या त्वदर्हा, कार्ये न या च कविता भवतः स्तवाय ।
लमो न यस्त्वयि भवो विभवश्व सा किं,सा किंस किंस किमिति प्रवदन्ति धीराः (स०) ॥९॥ टीका-सा किं स किं स किमिति प्रवदन्ति धीराः इति समस्या । हे विश्वैकनायक ! विश्वस्य जगत्रयस्य एकोडद्वितीयो नायको विश्वकनायकः तस्य संबोधनं हे विश्वकनायक !। या कला यद्विज्ञानं । त्वदर्हा कार्ये त्वद्योग्या । न हि न भवति । सा कला किं ? न किञ्चित् । पुनः हे देव! या कविता भवतः स्तवाय स्तोत्राय न भवति, सा कविता |किं ? न किञ्चित् । पुनर्यो भवो जन्म त्वयि भगवति न लग्नः न व्यापृतः, स किं? न किमपि । कोऽर्थः ? नृजन्म | प्राप्य भवद्विषये पूजाभत्त्यादिकं न कृतं, स भवः किं ? न किञ्चिदित्यर्थः । च पुनः विभवो द्रव्यं त्वयि न लग्नः त्वत्कार्ये न समायातः स विभवः किं ? न किश्चिदित्यर्थः । इति इत्थं पूर्वोक्तप्रकारेण धीराः प्रवदन्ति ॥९॥
अहीशेऽधस्तात्त्वामुपनमति जेतुं दितिसुतं, समादाय क्रोधान्मणिमधुपकान्तं किल धनुः । अधोधो मेनाकं चरति जगतीनाथ! समभूत्, धनुः कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः(स०)॥१०॥ टीका-हे जगतीनाथ ! धनु:कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः धनुषः कोटिरग्रं तत्र भृङ्गो भ्रमरस्तस्योपरि गिरि|स्तदुपरि जलधिरिति समभूत् संजातं । क सति ? अहीशे धरणेन्द्रे त्वामधस्तानीचैरुपनमति सति प्रणमति सति ।। पुनः क्व सति ? मेनाकं पर्वतं अधोऽधो नीचैनींचैश्चरति गच्छति ( सति ) किं कर्तुं ? दितिसुतं कमळं दैत्यं जेतुं । किं
R ORRY
For Pavle And Person Use Only