Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 154
________________ श्रीपार्श्व स्तवः शब्द ठठंठठठं० इत्यादि करोति । अन्योऽपि यः कश्चित् केनापि जितो भवति सोऽपि पर्वते आरुह्य भैरवझम्पादिक करोति, तस्य जयार्थं । एषोऽपि कामकुम्भो भगवत्सांवत्सरिकंदानेन जितः, ततो भगवद्दानशक्तितुल्यां दानशक्ति प्राप्तुं तपोरूपां भृगोः पतनं करोति ॥ ६॥ जनिमहे जनिते स्नपनोदकैः, प्रसृमरैरमरेश्वरभूधरे । विदलितेषु नगेषु किलाभव-नुपरि मूलमधस्तरुपल्लवाः (स.)॥७॥ टीका-उपरि मूलमधस्तरुपल्लवा इति समस्या । हे जिन ! उपरि मूलमधस्तरुपल्लवा अभवन् संजाताः । केषु सत्सु नगेषु वृक्षेषु विदलितेषु उन्मूलितेषु । कैः कृत्वा ? स्नपनोदकैः स्नानोदकैः । कथंभूतैः प्रसृमरैः प्रसरणशीलैः । किलेत्याप्ते (त्याप्तोक्तौ ) क ? मेरुपर्वते । कस्मिन् जनिमहे जन्ममहोत्सवे ॥ ७ ॥ रसना स्तवने नयनं वदने, श्रवणं वचने च करो महने । तव देव ! विशां कृतिनां सततं, रमते रमते रमते रमते ( स०)॥८॥ टीका-रमते रमते रमते रमते इति समस्या ।हे देव ! विशां मनुष्याणां । कृतिनां पुण्यवतां । सततं रसना जिह्वा । तव स्तवने स्तोत्रे रमते संतोष करोति । तव वदने आनने लोचनं रमते । श्रवणं कर्णः तव वचने रमते ।। है करो हस्तः तव महने (पूजने ) रमते ॥ ८॥ ॥७ ॥ For And Pesuse

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206