________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
राज्ञि दरिद्रेऽपि समाना तुल्या वर्तते । तर्हि सा दया मयि विषये कथं न ? यदि सा दया मयि विषये भवति, तदाऽहं तया संसारवासान्मुक्तो भवामीत्यर्थः ॥ ४ ॥
अथ पञ्चविंशतितमजिनस्तवमाह — स्थापना - खन्डवत्तापहरा शिव | श्री
श्री
सु
सु ।
खाय गीते मुमते प्रजा हस्तु ते सुत्रतदेव ती तिरस्क्रियाकृत्तमसोऽपि ता
म
व्र
त ॥ ५॥
व्याख्या - हे सुमते पञ्चमजिनपते ते तव गीर्वाणी प्रजासु लोकेषु शिवश्रीसुखाय मोक्षलक्ष्मीशर्मणे वर्तते । किंवि| शिष्टा गीः ? तापहरा बाह्याभ्यन्तरसन्तापापहारिणी । किंवत् ? श्रीखण्डवत् चन्दनवत् । अथोत्तरार्धव्याख्या -तुः पुनरर्थे । हे सुत्रतदेव हे मुनिसुव्रतस्वामिन् ते तव महस्तेजोऽपि तमसः पाप्मनः तीव्रतिरस्क्रियाकृत् अत्यर्थतिरस्कारकारि, किं पुनस्तव दर्शनमिति ज्ञेयं । हे तात हे जगत्पितः इत्यामन्त्रणं सुव्रतस्येत्यर्थः ॥ ५ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir