Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अपमायं अपमायं अपमायं तुह मणं व जिण ! चरणं । सत्ताणं सत्ताणं सत्ताणं भवभए हवइ ॥ ५ ॥
अव० - हे जिन ! तब त्वदुपदिष्टं चरणं चारित्रं । सत्त्वानां भवभये सति । सच्छोभनं त्राणं भवति । कथंभूतानां सवानां ? स्वार्त्तानां सुष्ठु अतिशयेन आर्त्ताः पीडितास्तेषां । कीदृशं चरणं अप्रमादं प्रमादरहितं । अपमायं । बाहुलकान्नपस्य वः । अप्रमां तत्स्वपरिच्छेदाभावं द्यति अप्रमादं । अप्रमः प्रमाणरहित आयो लाभो यस्मात्तत्तथा । किमिव ? मन इव त्वच्चेत इव ॥ ५ ॥
अणवरयं अणवरयं अणवरयं तं नमंति जे नाह ! | कल्लाणं कलाणं कल्लाणं ताण साहीणं ॥ ६ ॥
अव० -- अनवरतमश्रान्तं त्वां ये नमन्ति । हे नाथ ! । कीदृशं ? न नवे स्तवे रतोऽनवरतस्तं सर्वैः स्तुत्यत्वादस्तोतारं । 'अण' इत्ययं निषेधे, 'अणणा न इत्यर्थे' इतिवचनात्, न वरदं ब्रह्महरिहरादिवत् न वरदातारं त्वद्भक्त्या स्वत एव तेषां मनीषितप्राप्तेः, चिन्तामण्यादिवत् तेषां कल्याणं श्रेयः । कल्याणं स्वर्ण च । स्वाधीनं हस्तवर्ति भवतीति गम्यते । तेषां कीदृशां सतां ? कल्यानां नीरोगाणां प्रवीणानां वा ॥ ६ ॥
ओसरणं ओसरणं ओसरणं तुह जिनिंद ! दुरियाणं । रायनयं रायनयं रायनयं कस्स न हुइई ॥७॥
अव० -- ओसरणं समवसरणं । तव जिनेन्द्र ! अपसरणं दुरितानां अपसरत्यस्मादित्यपसरणं तत् । कस्य न शरणं
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206